आदित्य हृदय स्तोत्र

Aditya Hridaya Stotra

॥ विनियोग ॥
ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्येहृदयभूतो भगवान ब्रह्मा देवता
निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।

॥ ऋष्यादिन्यास ॥
ॐ अगस्त्यऋषये नमः, शिरसि।
अनुष्टुपछन्दसे नमः, मुखे।
आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि।
ॐ बीजाय नमः, गुह्यो।
रश्मिमते शक्तये नमः, पादयो।
ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः नाभौ।

॥ करन्यास ॥
ॐ रश्मिमते अंगुष्ठाभ्यां नमः।
ॐ समुद्यते तर्जनीभ्यां नमः।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः।
ॐ विवरवते अनामिकाभ्यां नमः।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः।
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।

॥ हृदयादि अंगन्यास ॥
ॐ रश्मिमते हृदयाय नमः।
ॐ समुद्यते शिरसे स्वाहा।
ॐ देवासुरनमस्कृताय शिखायै वषट्।
ॐ विवस्वते कवचाय हुम्।
ॐ भास्कराय नेत्रत्रयाय वौषट्।
ॐ भुवनेश्वराय अस्त्राय फट्।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।

ततो युद्धपरिश्रान्तम् समरे चिन्तया स्थितम ।
रावणम् चाग्रतो दृष्टवा युद्धाय समुपस्थितम ॥ 1 ॥

दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम ।
उपागम्या ब्रवीद्राम-मगस्तयो भगवान् ऋषिः ॥ 2 ॥

राम राम महाबाहो शृणु गुह्यम सनातनम ।
येन सर्वानरीन वत्स समरे विजयिष्यसि ॥ 3 ॥

आदित्यहृदयम् पुण्यम सर्वशत्रु-विनाशनम ।
जयावहम् जपेन्नित्य-मक्षय्यम परमम् शिवम् ॥ 4 ॥

सर्वमंगल-मांगलयम सर्वपाप प्रणाशनम् ।
चिंताशोक-प्रशमन-मायुरवर्धन-मुत्तमम् ॥ 5 ॥

रश्मिमन्तम समुद्यन्तम देवासुर-नमस्कृतम् ।
पूजयस्व विवस्वन्तम भास्करम् भुवनेश्वरम् ॥ 6 ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मि-भावनः ।
एष देवासुरगणान् लोकान पाति गभस्तिभिः ॥ 7 ॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपामपतिः ॥ 8 ॥

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वहनी: प्रजाप्राण ऋतु कर्ता प्रभाकरः ॥ 9 ॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान ।
सुवर्णसदृशो भानुर-हिरण्यरेता दिवाकरः ॥ 10 ॥

हरिदश्वः सहस्रार्चि: सप्तसप्ति-मरीचिमान ।
तिमिरोन्मन्थन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान ॥ 11 ॥

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोsदिते: पुत्रः शंखः शिशिरनाशान: ॥ 12 ॥

व्योम नाथस्तमोभेदी ऋग्य जुस्सामपारगः ।
धनवृष्टिरपाम मित्रो विंध्यवीथिप्लवंगम: ॥ 13 ॥

आतपी मंडली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भव: ॥ 14 ॥

नक्षत्रग्रहताराणा-मधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तुते ॥ 15 ॥

नमः पूर्वाय गिरये पश्चिमायाद्रए नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥

जयाय जयभद्राय हर्यश्वाए नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ 18 ॥

ब्रह्मेशानाच्युतेषाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः ॥ 20 ॥

तप्तचामिकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोsभिनिघ्नाये रुचये लोकसाक्षिणे ॥ 21 ॥

नाशयत्येष वै भूतम तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रम् च फलं चैवाग्निहोत्रिणाम ॥ 23 ॥

वेदाश्च क्रतवश्चैव क्रतुनाम फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥

॥ फलश्रुति ॥

एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन पुरुष: कश्चिन्नावसीदति राघव ॥ 25 ॥

पूज्यस्वैन-मेकाग्रे देवदेवम जगत्पतिम ।
एतत त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥

अस्मिन क्षणे महाबाहो रावणम् तवं वधिष्यसि ।
एवमुक्त्वा तदाsगस्त्यो जगाम च यथागतम् ॥ 27 ॥

एतच्छ्रुत्वा महातेजा नष्टशोकोsभवत्तदा ।
धारयामास सुप्रितो राघवः प्रयतात्मवान ॥ 28 ॥

आदित्यं प्रेक्ष्य जप्त्वा तु परम हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान ॥ 29 ॥

रावणम प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत ।
सर्वयत्नेन महता वधे तस्य धृतोsभवत् ॥ 30 ॥

अथ रवि-रवद-न्निरिक्ष्य रामम |
मुदितमनाः परमम् प्रहृष्यमाण: ।
निशिचरपति-संक्षयम् विदित्वा
सुरगण-मध्यगतो वचस्त्वरेति ॥ 31 ॥

इसमें टैग किया हुआ

इस सामग्री को बेहतर बनाने में हमारी मदद करें। आपके सुझाव का स्वागत है।