भक्ति पाठ

श्री विष्णु स्तुतिः (नरसिंहपुराणे)

श्री विष्णु स्तुतिः (नरसिंहपुराणे)

परिचय

यह मौलिक मार्गदर्शिका श्री विष्णु स्तुतिः (नरसिंहपुराणे) और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

ब्रह्मोवाच ।

नमः क्षीराब्धिवासाय नागपर्यङ्कशायिने ।

नमः श्रीकरसंस्पृष्टदिव्यपादाय विष्णवे ॥ १ ॥

नमस्ते योगनिद्राय योगान्तर्भाविताय च ।

तार्क्ष्यासनाय देवाय गोविन्दाय नमो नमः ॥ २ ॥

नमः क्षीराब्धिकल्लोलस्पृष्टमात्राय शार्ङ्गिणे ।

नमोऽरविन्दपादाय पद्मनाभाय विष्णवे ॥ ३ ॥

भक्तार्चितसुपादाय नमो योगप्रियाय वै ।

शुभाङ्गाय सुनेत्राय माधवाय नमो नमः ॥ ४ ॥

सुकेशाय सुनेत्राय सुललाटाय चक्रिणे ।

सुवक्त्राय सुकर्णाय श्रीधराय नमो नमः ॥ ५ ॥

सुवक्षसे सुनाभाय पद्मनाभाय वै नमः ।

सुभ्रुवे चारुदेहाय चारुदन्ताय शार्ङ्गिणे ॥ ६ ॥

चारुजङ्घाय दिव्याय केशवाय नमो नमः ।

सुनखाय सुशान्ताय सुविद्याय गदाभृते ॥ ७ ॥

धर्मप्रियाय देवाय वामनाय नमो नमः ।

असुरघ्नाय चोग्राय रक्षोघ्नाय नमो नमः ॥ ८ ॥

देवानामार्तिनाशाय भीमकर्मकृते नमः ।

नमस्ते लोकनाथाय रावणान्तकृते नमः ॥ ९ ॥

इति श्रीनरसिंहपुराणे सप्तचत्वारिंशोऽध्याये ब्रह्म कृत श्री विष्णु स्तुतिः ॥

"देवनागरि" ,