भक्ति पाठ
श्री राजगोपाल स्तुतिः
परिचय
यह मौलिक मार्गदर्शिका श्री राजगोपाल स्तुतिः और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।
पाठ
हृदि बोधदुग्धरसवासनाकृतेः
परिनिर्मिताविव पयोजतल्लजौ ।
अपवर्गमार्गपरिबोधनाय मे
चरणौ तवेश किमु चिह्नपल्लवौ ॥ १ ॥
उपरिश्रितेन पुरतश्च नश्वर-
-व्यवहारदूरगगिरामनावृतम् ।
प्रणवद्वयेन मणिनूपुरात्मना
परिकर्मिते तव पदेपदे मुदाम् ॥ २ ॥
रुचिवारिपूररुचिरं भुजान्तरं
शिशिरं तटाकमवगाह्य तावकम् ।
त्यजति श्रमं व्रजति हर्षमद्य मे
भवघर्मतापमपनीय दृग्गवी ॥ ३ ॥
अरुणाधरं तरुणचन्द्रसुन्दरं
करुणाधरं वदनमीश तावकम् ।
स्मितकान्तिपूरनवचन्द्रिकाभरै-
-र्भवशार्वरं क्षिपति भव्यचेतसाम् ॥ ४ ॥
परितः स्थितेऽपि चिकुरौघशार्वरै-
-र्विलुठद्भिराननविधौ विभाविते ।
तिलकेन नद्धकुलकेन सादरं [सुन्दरं]
न हि वेत्ति बालतममत्युदारगीः ॥ ५ ॥
स्मितफुल्लगण्डतलमुल्लसन्मुखम् ।
तव देव नैव हृदयं जहातु मे ॥ ६ ॥
इति श्री गुरु राघवेन्द्र यति विरचित राजगोपाल स्तुतिः ॥
"देवनागरि" ,