स्तोत्र

श्री राघवेन्द्र सहस्रनाम स्तोत्रम्

परिचय

श्री राघवेन्द्र सहस्रनाम स्तोत्रम् को स्तोत्र के रूप में प्रस्तुत किया गया है, जो स्तुति का एक भक्ति-पाठ है। यह मौलिक मार्गदर्शिका इसके विषय को समझने और परंपरा का सम्मान करते हुए आगे बढ़ने का स्थान देती है।

पाठ

अथ श्रीराघवेन्द्रार्य नाम्नां साहस्रमुत्तमम् ।

प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरोः ॥ १ ॥

अकारादि क्षकारान्तवर्णानुक्रमयोगतः ।

क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥ २ ॥

अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः ।

प्रह्लादावतरत्वाच्च घटतेऽत्र न संशयः ॥ ३ ॥

द्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः ।

श्रीं नमो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥ ४ ॥

ध्यानम्-

भव्याकारो भावितेष्टार्थदाता

वामे चासौ वामहस्तं दधानः ॥ ५ ॥

ज्ञानाभीती ज्ञानवान् दक्षहस्ते-

-रन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ ६ ॥

स्तोत्रम् –

ओम् । अथातो ब्रह्मजिज्ञासेत्यादि सूत्रार्थयोजनाम् ।

यस्तन्त्रदीपिकां चक्रे तं नौम्यज्ञानभञ्जनम् ॥ ७ ॥

अणिमाद्यष्टसिद्धीतमनणुज्ञानसम्पदम् ।

अमोघशक्तिमनघमपरोक्षीकृताच्युतम् ॥ ८ ॥

अखिलाभीष्टदं चात्मविदमायुःप्रवर्धनम् ।

आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकम् ॥ ९ ॥

आनन्दसान्द्रमारब्धकार्यान्तगमनक्षमम् ।

आकुलीकृतदुर्वादिवृन्दमाकारबन्धुरम् ॥ १० ॥

आशुप्रसन्नमासन्नभक्तकामसुरद्रुमम् ।

आध्यात्मरतमाचार्यमासमुद्रैकसद्गुरुम् ॥ ११ ॥

आत्मारामार्चनासक्तमार्यमाप्ततमं मम ।

इन्द्रियोत्पन्नदोषघ्नमिन्द्रवत्त्यागभोगिनम् ॥ १२ ॥

प्रमाणमिष्टदातारमीषणात्रयवर्जितम् ।

उग्ररक्षःपिशाचघ्नमुन्मादहरमुत्तमम् ॥ १३ ॥

उदारचित्तमुद्धारकमुत्पातहारकम् ।

उपेक्षितकुवादीन्द्रमुपकारपरायणम् ॥ १४ ॥

ऊरुदघ्नीकृतापारभवसागरमूर्जितम् ।

ऊष्महर्तारमृक्षाधिपतिशीतलदर्शनम् ॥ १५ ॥

ऋभुस्वभावमृद्धोरुमाहात्म्यमृजुमानसम् । [ऋजु, मृदु]

एडमूकसुवाग्दात्रे नमस्ते चैकभाषिणे ॥ १६ ॥

एकान्तभक्तायैश्वर्यदात्रे चैक्यमतच्छिदे ।

ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने ॥ १७ ॥

ओङ्कारजपशीलाय सदोमात्मेत्युपासिने ।

औषधोक्त्यापि भक्तानामामयाधिकहारिणे ॥ १८ ॥

अंसात्ततुलसीमालमंहोनाशकदर्शनम् ।

अस्तङ्गतारिषड्वर्गमर्थिमन्दारकं भजे ॥ १९ ॥

कलिदोषविनाशाय कलौ सद्यः फलप्रदः ।

कमलापतिभक्ताय कुण्ठकुण्ठत्वभञ्जिने ॥ २० ॥

करालनरसिंहोग्रक्रोधशामकमूर्तये ।

कपोलशङ्खचक्राङ्कशालिन् कपटवर्जित ॥ २१ ॥

[* अधिकपाठः – कल्पभूरुहरूपाय कलभौधाभकीर्तये । *]

नमः कमण्डलुं धर्त्रे करे दण्डधराय ते ।

कामेषूणामलक्ष्यश्च कामिनीकामनोज्झितः ॥ २२ ॥

कामारिश्लाघ्यसद्वृत्तः कामदः कामरूपधृक् ।

कानीनभाववेत्ता च कालज्ञः कालसाधकः ॥ २३ ॥

कापालिकमतध्वंसी काशिकाकाशमानवाक् ।

कान्तारभीतिहा कान्तिकान्तः कापथवर्जितः ॥ २४ ॥

काषायाम्बरधारी च काश्मीरद्रवचर्चितः ।

किरातभीतिसंहर्ता किलासित्वविनाशकः ॥ २५ ॥

कीनाशभयहा कीटभयहा कीर्तिमण्डितः ।

कुकूलाभः पिशाचानां कुष्ठरोगनिवारणः ॥ २६ ॥

कुशासनस्थितः कुक्षिपूरकश्च कुतूहली ।

कुत्सिताचाररहितः कुमारसुखवर्धनः ॥ २७ ॥

कुशलश्च कुलीनश्च कुशासनविवर्जितः ।

कुम्भघोणकृतावासः कुतोऽपि भयभञ्जनः ॥ २८ ॥

कूपपातकपापघ्नः कूर्मासनपरिग्रहः ।

कूष्माण्डादि प्रतिभयः कीर्तिदः कीर्तनप्रियः ॥ २९ ॥

केशवाराधकः केतुदोषघ्नः केवलेष्टदः ।

केतकीकुसुमासक्तः केसरद्रवलोलुपः ॥ ३० ॥

कैवल्यदाता कैङ्कर्यतुष्टश्रीशश्च कोशदः ।

कालानुसारदाता च कोशी कोशातकीप्रियः ॥ ३१ ॥

कोलाहलविरोधी च कौपीनपटलाञ्छनः ।

कम्बुध्वनिप्रियः कम्बुग्रीवः कम्पविवर्जितः ॥ ३२ ॥

कृपीटयोनिवर्चस्कः कृतभक्तार्तिनाशनः ।

कृत्यासनः कृतज्ञश्च कृत्याचेष्टकभञ्जनः ॥ ३३ ॥

कृपामहोदधिः कृष्णध्यानासक्तः कृशप्रियः ।

कस्तूरीतिलकासक्तः कृत्तसंसारसाध्वसः ॥ ३४ ॥

त्वमेव शरणं भूया नान्यः कश्चन विद्यते ॥ ३५ ॥

खगेशवाहभक्तेन खरपातकहारिणा ।

खदोषहर्त्रा खपुरप्रियेण खलमारिणा ॥ ३६ ॥

खाद्यप्रियेण मे भूयात् खलप्वा भवता गतिः ।

खिलहीनः खेदहन्ता खिन्नचित्तप्रमोददः ॥ ३७ ॥

खेदहा खुरणोघ्नश्च खञ्जदुःखनिवारणः ।

खोडत्वनाशको भूयादस्मदिष्टार्थसिद्धये ॥ ३८ ॥

गरघ्नाद्गणनम्याङ्घ्रेर्गरुत्मद्वाहसेवकात् ।

गुरोरन्यत्र मे चित्तं न गच्छतु गुणार्णवात् ॥ ३९ ॥

गलात्ततुलसीमालो गर्भदो गर्भदुःखहा ।

गर्तहारी गजगतिर्गतदोषो गतिप्रदः ॥ ४० ॥

गदाधरो गदहरो गर्वहा गरिमालयः ।

गभस्तिमान् गह्वरस्थो गतभीर्गलिताहितः ॥ ४१ ॥

गताघो गर्जितारातिर्गदयित्नुर्गवां प्रियः ।

ग्रस्तारिर्ग्रहदोषघ्नो ग्रहोच्चाटनतत्परः ॥ ४२ ॥

गीष्पत्याभश्च गायत्रीजापको गायनप्रियः ।

ग्रामणीः ग्राहको ग्राही ग्रावग्रीवमतच्छिदः ॥ ४३ ॥

ग्रामक्षेमकरो ग्राम्यभयहा ग्राहभीतिहा ।

गात्रक्षेमकरो गामी गिरिसारनिभाङ्गकः ॥ ४४ ॥

गतभाविजनिर्गम्यो गीर्वाणावासमूलभूः ।

गुणी गुणप्रियो गुण्यो गुहावासो गुरुप्रियः ॥ ४५ ॥

गुडप्रियो गुच्छकण्ठो गुल्मच्छेत्ता गुणादरः ।

गुप्तगुह्यो गूढकर्मा गुरुराजश्च गूहितः ॥ ४६ ॥

गेहदाता गेयकीर्तिर्गैरिकारञ्जिताम्बरः ।

गृह्यक्षेमकरो गृह्यो गृहगो गृहवर्धनः ॥ ४७ ॥

गोदावरीस्नानरतो गोपबालकपूजकः ।

गोष्पदीकृतसंसारवार्धिर्गोपुररक्षकः ॥ ४८ ॥

गोप्यमन्त्रजपो गोमान् गोकर्णी गोचराखिलः ।

गोग्रासदो गोत्ररत्नं गोस्तनीनिभभाषणः ॥ ४९ ॥

गोप्ता गौतमशास्त्रज्ञो गौरवी गौरवप्रदः ।

गन्ता गञ्जितशत्रुश्च गन्धर्वो गन्धवर्धनः ॥ ५० ॥

गन्धी गन्धवतीसूनुग्रन्थविद्गन्धवाहवित् ।

गन्धर्वाभो ग्रन्थिभेदी ग्रन्थकृद्ग्रन्थपाठकः ॥ ५१ ॥

गण्डशैलप्रियो गण्डमालभिद्गण्डकीरतिः ।

गङ्गास्नायी च गाङ्गेयप्रदो गाण्डीविमित्रवित् ॥ ५२ ॥

घटनाननुरूपस्याप्यर्थस्य घटको घनः ।

घर्महर्ता घनप्रीतिर्घनाघननिभाङ्गभाः ॥ ५३ ॥

घनसारद्रवासिक्तकायो घर्घरिकाङ्कनः ।

घ्राणतर्पणचार्वङ्गो घृणावान् घृसृणप्रियः ॥ ५४ ॥

घृतप्रियो घातितारिर्घोषयित्नुश्च घोषदः ।

घोण्टाफलास्थिद्वयसजपमालाकराम्बुजः ॥ ५५ ॥

घोरामयपरीहर्ता घण्टापथगतिप्रियः ।

घण्टानादप्रियश्चाथ ङणद्वाद्यविनोदनः ॥ ५६ ॥

चक्रशङ्खाङ्कितभुजश्चमूमदविभञ्जनः ।

चराचरक्षेमकर्ता चतुरश्चरणारुणः ॥ ५७ ॥

चतुष्पदीस्तुत्यमानश्चतुर्मुखपितृप्रियः ।

चतुस्सागरविख्यातः चर्मासनसमाधिमान् ॥ ५८ ॥

चत्वरस्थः चकोराक्षः चञ्चलत्वनिवारकः ।

चतुर्वेदविशेषज्ञः चलाचलहृदप्रियः ॥ ५९ ॥

चतुरङ्गबलध्वंसी चतुरोपायशिक्षितः ।

चारुरूपः चारसेव्यः चामरद्वयशोभितः ॥ ६० ॥

चित्तप्रसादजननः चित्रभानुप्रभोज्ज्वलः ।

चिरजीवी चित्तहरः चित्रभाषी चितिप्रदः ॥ ६१ ॥

चित्रगुप्तभयत्राता चिरण्टीजनसेवितः ।

चिन्तामणिः स्वभक्तानां चिन्तितार्थप्रदायकः ॥ ६२ ॥

चिन्ताहर्ता चित्तवासी चीरकौपीनधारिणः ।

चिपिटत्यागकृच्चुल्लस्वक्षिदश्चुल्लवर्धनः ॥ ६३ ॥

चूडामणिर्वैष्णवानां चूर्णीकृतमहाभयः ।

चूडाला यशसा चूतफलास्वादविनोदनः ॥ ६४ ॥

चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषहा ।

चेष्टकः चेष्टकध्वंसी चैत्रोत्सवमुदम्भरः ॥ ६५ ॥

चोद्यहर्ता चौरनाशी चितिमांश्चित्तरञ्जनः ।

चिन्त्यः चेतनदाता मे चिन्तां हरतु सन्ततम् ॥ ६६ ॥

चन्द्रहासः चन्द्रकान्तः चन्द्रः चण्डीशपूजकः ।

चक्षुःप्रीतिकरः चन्द्रचन्दनद्रवसेवनः ॥ ६७ ॥

छद्महीनः छत्रभोगी छलहा छदलोचनः ।

छन्नज्ञानः छन्नकर्मा छविमान् छात्रसेवितः ॥ ६८ ॥

छात्रप्रियश्छात्ररक्षी छागयागादिशास्त्रवित् ।

छत्रचामरदाता छत्रचामरशोभितः ॥ ६९ ॥

छिद्रहारी छिन्नरोगश्छन्दःशास्त्रविशारदः ।

छेदको भवदुःखानां भवतात् छिन्नसाध्वसः ॥ ७० ॥

जराहर्ता जगत्पूज्यो जयन्तीव्रततत्परः ।

जयदो जयकर्ता च जगत्क्षेमकरो जयी ॥ ७१ ॥

जराहीनो जनैःसेव्यो जनानन्दकरो जवी ।

जनप्रियो जघन्यघ्नो जपासक्तो जगद्गुरुः ॥ ७२ ॥

जरायुबन्धसंहर्ता जलगुल्मनिवारणः ।

जाड्यहा जानकीशार्ची जाह्नवीजलपावनः ॥ ७३ ॥

जातमात्रशिशुक्षेमी ज्यायान् जाल्मत्ववर्जितः ।

जिष्णुर्जिनमतध्वंसी जिगीषुर्जिह्मवर्जितः ॥ ७४ ॥

जगदुद्धृतये जातो जितक्रोधो जितेन्द्रियः ।

जितारिवर्गो जितदुर्वादी जितमनोभवः ॥ ७५ ॥

जीवातुर्जीविका जीवदाता जीमूतवत् स्थिरः ।

जीवितेशभयत्राता जीर्णज्वरविनाशनः ॥ ७६ ॥

जुष्टश्रीनाथपादाब्जो जूर्तिबाधाविनाशनः ।

जेता ज्येष्ठो ज्येष्ठवृत्तिर्जैवात्रकसमः सताम् ॥ ७७ ॥

ज्योत्स्नानिभयशा जम्भहन्ता जम्बूफलप्रियः ।

झल्लरीवादनप्रीतिर्झषकेतोरुपेक्षकः ॥ ७८ ॥

झलाप्रियो झूणिहन्ता झञ्झावातभयापहा ।

ज्ञानवान् ज्ञानदाता च ज्ञानानन्दप्रकाशवान् ।

टट्‍टरीरहितष्टीकातात्पर्यार्थप्रबोधकः ॥ ७९ ॥

टङ्कारकरचारित्रष्टङ्काभो दुरितात्मनः ।

टक्प्रत्ययविचारज्ञष्टीकृतान्यबुधोक्तिकः ॥ ८० ॥

डमरुध्वनिकृन्मित्रं डाकिनीभयभञ्जनः ।

डिम्भसौख्यप्रदो डोलाविहारोत्सवलोलुपः ॥ ८१ ॥

ढक्कावाद्यप्रियो ढौकमानो णत्वार्थकोविदः ।

तपस्वी तप्तमुद्राङ्कस्तप्तमुद्राङ्कनप्रदः ॥ ८२ ॥

तपोधनाश्रयस्तप्ततापहर्ता तपोधनः ।

तमोहर्ता त्वरितदस्तरुणस्तर्कपण्डितः ॥ ८३ ॥

त्रासहर्ता तामसहा तातस्तापससेवितः ।

तारकस्त्राणदस्त्राता तप्तकाञ्चनसन्निभः ॥ ८४ ॥

त्रिवर्गफलदः तीव्रफलदाता त्रिदोषहा ।

तिरस्कृतपरस्त्यागी त्रिलोकीमान्यसत्तमः ॥ ८५ ॥

तीक्ष्णरूपः पिशाचानां तीर्णसंसारसागरः ।

तुरुष्कसेवितस्तुल्यहीनस्तुरगवाहनः ॥ ८६ ॥

तूलायितीकृताघौघस्तुष्टिदः तुङ्गविग्रहः ।

तेजस्वी तैलविद्वेषी तोकानां सुखवर्धनः ॥ ८७ ॥

तन्द्रीहरस्तण्डुलदस्तञ्जापुरकृतादरः ।

स्थलदः स्थापकः स्थाता स्थिरः स्थूलकलेवरः ॥ ८८ ॥

स्थेयान् स्थैर्यप्रदः स्थेमा स्थौरी च स्थण्डिलेशयः ।

दशावान् दक्षिणो दत्तदृष्टिर्दाक्षिण्यपूरितः ॥ ८९ ॥

दक्षो दयालुर्दमवान् द्रवच्चित्तो दधिप्रियः ।

द्रव्यदो दर्शनादेव प्रीतो दलितपातकः ॥ ९० ॥

दत्ताभीष्टो दस्युहन्ता दान्तो दारुणदुःखहा ।

द्वासप्तति सहस्राणां नाडीनां रूपभेदवित् ॥ ९१ ॥

दारिद्र्यनाशको दाता दासो दासप्रमोदकृत् ।

दिवौकःसदृशो दिष्टवर्धनो दिव्यविग्रहः ॥ ९२ ॥

दीर्घायुः दीर्णदुरितो दीनानाथगतिप्रदः ।

दीर्घायुष्यप्रदो दीर्घवर्जितो दीप्तमूर्तिमान् ॥ ९३ ॥

दुर्धरो दुर्लभो दुष्टहन्ता दुष्कीर्तिभञ्जनः ।

दुःस्वप्नदोषहा दुःखध्वंसी द्रुमसमाश्रयः ॥ ९४ ॥

दूष्यत्यागी दूरदर्शी दूतानां सुखवर्धनः ।

दृष्टान्तहीनो दृष्टार्थो दृढाङ्गो दृप्तदर्पहृत् ॥ ९५ ॥

दृढप्रज्ञो दृढभक्तिर्दुर्विधानां धनप्रदः ।

देवस्वभावो देहीति याचनाशब्दमूलभित् ॥ ९६ ॥

दूनप्रसादकृत् दुःखविनाशी दुर्नयोज्झितः ।

दैत्यारिपूजको दैवशाली दैन्यविवर्जितः ॥ ९७ ॥

दोषाद्रिकुलिशो दोष्मान् दोग्धा दौर्भिक्ष्यदोषहा ।

दण्डधारी दम्भहीनो दन्दशूकशयप्रियः ॥ ९८ ॥

धनदो धनिकाराध्यो धन्यो धर्मविवर्धनः ।

धारको धान्यदो धाता धिषणावान् धिनोतु माम् ॥ ९९ ॥

धीरो धीमान् धीप्रदाता धूतारिष्टो ध्रुवाश्रयः ।

धृतभक्ताभयो धृष्टो धृतिमान् धूतदूषणः ॥ १०० ॥

धूर्तभङ्गकरो धेनुरूपो धैर्यप्रवर्धनः ।

धूपप्रियो धोरणीभृत् धूमकेतुभयापहः ॥ १०१ ॥

धौतवस्त्रपरीधानो धावायत्वहितं मम ।

नमस्ते नलिनाक्षाय नवग्रहभयच्छिदे ॥ १०२ ॥

नवधाभक्तिभेदज्ञो नरेन्द्रो नरसेवितः ।

नामस्मरणसन्तुष्टो नारायणपदाश्रयः ॥ १०३ ॥

नाडीस्थैर्यप्रदो नानाजातिजन्तुजनार्चितः ।

नारीदूरो नायकश्च नागाद्यैश्वर्यदायकः ॥ १०४ ॥

निर्वाणदो निर्मलात्मा निष्कासितपिशाचकः ।

निःश्रेयसकरो निन्दावर्जितो निगमार्थवित् ॥ १०५ ॥

निराकृतकुवादीन्द्रो निर्जराप्तो निरामयः ।

नियामको नियतिदो निग्रहानुग्रहक्षमः ॥ १०६ ॥

निष्कृष्टवाक्यो निर्मुक्तबन्धनो नित्यसौख्यभुक् ।

निदानं सम्पदां निष्टानिष्णातो निर्वृतिप्रदः ॥ १०७ ॥

निर्ममो निरहङ्कारो नित्यनीराजनप्रियः ।

निजप्रदक्षिणेनैव सर्वयात्राफलप्रदः ॥ १०८ ॥

नीतिमान् नुतपादाब्जो न्यूनपूर्णत्ववर्जितः ।

निद्रात्यागी निस्पृहश्च निद्रादोषनिवारणः ॥ १०९ ॥

नूतनांशुकधारी च नृपपूजितपादुकः ।

नृणां सुखप्रदो नेता नेत्रानन्दकराकृतिः ॥ ११० ॥

नियमी नैगमाद्यैश्च भक्तिभावेन सेवितः ।

नेदिष्ठो भजतां भक्त्या नौका भक्तभवाम्बुधेः ॥ १११ ॥

नन्दात्मजप्रियो नाथो नन्दनो नन्दनद्रुमः ।

प्रसन्नः परितापघ्नः प्रसिद्धः परतापहृत् ॥ ११२ ॥

प्रथमः प्रतिपन्नार्थः प्रसाधितमहातपाः ।

पराक्रमजितारातिः प्रतिमानविवर्जितः ॥ ११३ ॥

प्रवरः प्रक्रमज्ञश्च परवादिजयप्रदः ।

प्रमुखः प्रबलः प्रज्ञाशाली प्रत्यूहनाशकः ॥ ११४ ॥

प्रपञ्चसुखदाता च प्रकृतिस्थः प्रवृत्तिकृत् ।

प्रभूतसम्पत् पत्रोर्णधारी प्रणवतत्परः ॥ ११५ ॥

प्रचण्डः प्रदरध्वंसी प्रतिग्रहविवर्जितः ।

प्रत्यक्षफलदाता च प्रसादाभिमुखः परः ॥ ११६ ॥

पाठकः पावनः पाता प्राणदाता प्रसादकृत् ।

प्राप्तसिद्धिः पारिजातदर्पहा पाकसाधनः ॥ ११७ ॥

पाटीरपादुकः पार्श्ववर्ती पारायणप्रियः ।

पिण्याकीकृतदुर्वादी पिता पीडाविनाशकः ॥ ११८ ॥

प्रीतिमान् पीतवसनः पीयूषं पीवराङ्गकः ।

प्रियंवदः पीडिताघः पुलकी पुष्टिवर्धनः ॥ ११९ ॥

पुत्रवत्पाल्यभक्तौघः पुण्यकीर्तिः पुरस्कृतः ।

पुष्टप्रियः पुण्ड्रधारी पुरस्थः पुण्यवर्धनः ॥ १२० ॥

पूर्णकामः पूर्वभाषी पृथुः पृथुकवर्धनः ।

पृष्टप्रश्नपरीहर्ता पृथिवीक्षेमकारकः ॥ १२१ ॥

पेशलः प्रेतभीतिघ्नः पेयपादोदकप्रभुः ।

प्रेङ्खद्वाणीविलासश्च प्रेरकः प्रेमवर्धनः ॥ १२२ ॥

पैशुन्यरहितः प्रोतसुखदः पोषकाग्रणीः ।

प्रोतधर्मा पौरुषदः पूरकः पङ्क्तिपावनः ॥ १२३ ॥

पण्डितः पङ्कहा पम्पावासी पङ्गुत्ववारकः ।

फलोदयकरः फालदुरक्षरमदापहृत् ॥ १२४ ॥

फुल्लनेत्रोऽथ फलिततपस्यः फर्फरीकवाक् ।

फूत्कारोच्चाटितानेकतापत्रयपिशाचकः ॥ १२५ ॥

फाण्टानेकेतरासाध्यकार्यो रक्षतु मां सदा ।

बलवान् बहुदाता च बदरीफललोलुपः ॥ १२६ ॥

बालप्रियो ब्राह्मणाग्र्यो बाधाहन्ता च बाहुदः ।

बुद्धिदाता बुधो बुद्धमतघाती बुधप्रियः ॥ १२७ ॥

वृन्दावनस्थतोयेन सर्वतीर्थफलप्रदः ।

वैराग्योल्लासकर्ता च वृन्दावनसमाश्रयः ॥ १२८ ॥

बिल्वपत्रार्चनप्रीतो बन्धुरोक्तिश्च बन्धहा ।

बन्धुर्बधिरताहर्ता बन्धुविद्वेषवारणः ॥ १२९ ॥

वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृत् ।

बहुप्रजापालकश्च वेतालादिलयप्रदः ॥ १३० ॥

भक्तानां जयसिद्ध्यर्थं वाद्यज्ञानप्रदः स्वयम् ।

भगवद्भक्तविद्वेष्टुः सद्यः प्रत्यक्षबन्धकृत् ॥ १३१ ॥

भक्तिदो भव्यदाता च भगन्दरनिवारणः ।

भवसौख्यप्रदः भर्मपीठो भस्मीकृताशुभः ॥ १३२ ॥

भवभीतिहरो भग्नदारिद्र्यो भजनप्रियः ।

भावज्ञो भास्करप्रख्यो भामत्यागी च भाग्यदः ॥ १३३ ॥

भाव्यर्थसूचको भार्यासक्तानामपि सौख्यदः ।

भक्तभारधरो भक्ताधारो भोगप्रियः सदा ॥ १३४ ॥

भिक्षुर्भीमपदासक्तो भुक्तिमुक्तिफलप्रदः ।

भूतप्रेतपिशाचादि भयपीडानिवारणः ॥ १३५ ॥

भूमा भूतिप्रदो भूरिदाता भूपतिवन्दितः ।

भ्रूणकर्ता भृत्यभर्ता भक्तवश्यश्च भेषजम् ॥ १३६ ॥

भैरवो भवरोगस्य भोक्ता भोजनदायकः ।

भौरिको भौतिकारिष्टहर्ता भौमजदोषहा ॥ १३७ ॥

भङ्गप्रदोऽरिमोदस्य भ्रान्तिहीनोऽवतात् स माम् ।

मल्लिकाकुसुमासक्तो मथितान्यमतो महान् ॥ १३८ ॥

मसृणत्वङ् मरुत्प्रख्यो महान्धनयनप्रदः ।

महोदयो मन्युहीनो महावीरपदार्चकः ॥ १३९ ॥

मलीमसमलध्वंसी मुकुरः शास्त्रसंविदाम् ।

महिषीक्षेत्रगो मध्वमतदुग्धाब्धिचन्द्रमा ॥ १४० ॥

मनःप्रमोदजननो मत्तानां मदभञ्जनः ।

महायशा महात्यागी महाभोगी महामनाः ॥ १४१ ॥

मारिकाभयहर्ता च मात्सर्यरहितान्तरः ।

मायाहर्ता मानदाता माता मार्गप्रदर्शकः ॥ १४२ ॥

मार्गणेष्टप्रदाता च मालतीकुसुमप्रियः ।

मुख्यो मुख्यगुरुर्मुख्यपालको मितभाषणः ॥ १४३ ॥

मीलतारिर्मुमूर्षुश्च मूकानां दिव्यवाक्प्रदः ।

मूर्धाभिषिक्तो मूढत्वहारी मूर्छनरोगहा ॥ १४४ ॥

मृषावचनहीनश्च मृत्युहर्ता मृदुक्रमः ।

मृदङ्गवादनरुचिर्मृग्यो मृष्टान्नदायकः ॥ १४५ ॥

मृत्तिकासेवनेनैव सर्वरोगनिवारणः ।

मेधावी मेहरोगघ्नो मेध्यरूपश्च मेदुरः ॥ १४६ ॥

मेघगम्भीरनिनदो मैथिलीवल्लभार्चकः ।

मोदकृन्मोदकासक्तो मोहहा मोक्षदायकः ॥ १४७ ॥

मौनव्रतप्रियो मौनी मन्त्रालयकृतालयः ।

माङ्गल्यबीजमहिमामण्डितो मङ्गलप्रदः ॥ १४८ ॥

यष्टिधारी यमासक्तो याचकामरभूरुहः ।

यातयामपरित्यागी याप्यत्यागी यतीश्वरः ॥ १४९ ॥

युक्तिमान् यक्षभीतिघ्नो योगी यन्ता च यन्त्रवित् ।

यौक्तिको योग्यफलदो योषित्सङ्गविवर्जितः ॥ १५० ॥

योगीन्द्रतीर्थवन्द्याङ्घ्रिर्यानाद्यैश्वर्यभोगवान् ।

रसिकाग्रेसरो रम्यो राष्ट्रक्षेमविधायकः ॥ १५१ ॥

राजाधिराजो रक्षोघ्नो रागद्वेषविवर्जितः ।

राजराजायितो राघवेन्द्रतीर्थो जयत्यलम् ॥ १५२ ॥

रिक्तप्रियो रीतिमांश्च रुक्मदो रूक्षवर्जितः ।

रेवास्नायी रैक्वखण्डव्याख्याता रोमहर्षणः ॥ १५३ ॥

रोगहा रौरवाघघ्नो रन्ता रक्षणतत्परः ।

लक्ष्मणो लाभदो लिप्तगन्धो लीलायतित्वधृत् ॥ १५४ ॥

लुप्तारिगर्वो लूनाघमूलो लेखर्षभायितः ।

लोकप्रियो लौल्यहीनो लङ्कारातिपदार्चकः ॥ १५५ ॥

व्यतीपातादि दोषघ्नो व्यवहारजयप्रदः ।

वाचम्यमो वर्धमानो विवेकी वित्तदो विभुः ॥ १५६ ॥

व्यङ्गस्वङ्गप्रदो व्याघ्रभयहा वज्रभीतिहृत् ।

वक्ता वदान्यो विनयी वमिहा व्याधिहारकः ॥ १५७ ॥

विनीतो विदिताशेषो विपत्तिपरिहारकः ।

विशारदो व्यसनहा विप्रलापविवर्जितः ॥ १५८ ॥

विषघ्नो विस्मयकरो विनुताङ्घ्रिर्विकल्पहृत् ।

विनेता विक्रमश्लाघ्यो विलासी विमलाशयः ॥ १५९ ॥

वितण्डावर्जितो व्याप्तो व्रीहिदो वीतकल्मषः ।

व्यष्टिदो वृष्टिदो वृत्तिदाता वेदान्तपारगः ॥ १६० ॥

वैद्यो वैभवदाता च वैतालिकवरस्तुतः ।

वैकुण्ठभजनासक्तो वोढा वंशाभिवृद्धिकृत् ॥ १६१ ॥

वञ्चनारहितो वन्ध्यावत्सदो वरदाग्रणीः ।

शरणं शमसम्पन्नः शर्करामधुभाषणः ॥ १६२ ॥

शरीरक्षेमकारी च शक्तिमान् शशिसुन्दरः ।

शापानुग्रहशक्तश्च शास्ता शास्त्रविशारदः ॥ १६३ ॥

शान्तः शिरःशूलहर्ता शिवः शिखरिणीप्रियः ।

शिवदः शिशिरः श्लाघ्यः श्रद्धालुः श्रीप्रदायकः ॥ १६४ ॥

शीघ्रप्रसादः शीतघ्नः शुद्धिकृत् शुभवर्धनः ।

श्रुतवान् शून्यहा शूरः श्रेष्ठः शुश्रूषुसौख्यदः ॥ १६५ ॥

श्वेतवस्त्रप्रियः शैलवासी शैवप्रभञ्जनः ।

शोफहर्ता शोभनाङ्गः शौर्यौदार्यगुणान्वितः ॥ १६६ ॥

श्लेष्महर्ता शङ्करश्च शृङ्खलाबन्धमोचकः ।

शृङ्गारप्रीतिजनकः शङ्काहारी च शंसितः ॥ १६७ ॥

षण्ढपुंस्त्वप्रदः षोढा षड्वैरिरहितः सदा ।

भूयात् षोडशमाङ्गल्यप्रदाता षट्प्रयोगवित् ॥ १६८ ॥

सत्यसन्धः समाधिस्थः सरलः सत्तमः सुखी ।

समर्थः सज्जनः साधुः साधीयान् सम्प्रदायदः ॥ १६९ ॥

सात्त्विकः साहसी स्वामी सार्वभौमत्वसारवित् ।

सर्वावगुणहीनश्च सदाचारानुमोदकः ॥ १७० ॥

सर्वभूतदयाशाली सत्यधर्मरतः समः ।

स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदः ॥ १७१ ॥

[* अधिकपाठः – स्वनमस्कारमात्रेण सर्वकाम्यार्थसिद्धिदः ।]

स्वभक्तानां दुराचारसहनः सुस्मिताननः ।

सर्वतन्त्रस्वतन्त्रश्च सुधीन्द्रकरकञ्जजः ॥ १७२ ॥

सिद्धिदः सिद्धसङ्कल्पः सिद्धार्थः सिद्धिसाधनः ।

स्वप्नवक्ता स्वादुवृत्तिः स्वस्तिदाता सभाजयी ॥ १७३ ॥

सीमावान् सुरभिः सूनुदाता सूनृतभाषणः ।

सुग्रीवः सुमनाः स्निग्धः सूचकः सेवकेष्टदः ॥ १७४ ॥

सेतुः स्वैरचरः सौम्यसौम्यः सौभाग्यदायकः ।

सोमभाः सम्मतः सन्धिकर्ता संसारसौख्यदः ॥ १७५ ॥

सङ्ख्यावान् सङ्गरहितः सङ्ग्रही सन्ततिप्रदः ।

स्मृतिमात्रेण सन्तुष्टः सर्वविद्याविशारदः ॥ १७६ ॥

सुकलः सुकुमाराङ्गः सिंहसंहननस्तथा ।

हरिसेवापरो हारमण्डितो हठवर्जितः ॥ १७७ ॥

हितो हुताग्निर्हेतुश्च हेमदो हैमपीठगः ।

हृदयालुर्हर्षमाणो होता हंसश्च हेयहा ॥ १७८ ॥

ललितो लब्धनिर्वाणो लक्ष्मीलावण्यलक्षितः ।

क्षमाशीलः क्षामहरः क्षितिस्थः क्षीणपातकः ॥ १७९ ॥

क्षुद्रबाधापहर्ता च क्षेत्रज्ञः क्षेमदः क्षमः ।

क्षोदहन्ता क्षौद्रदृष्टिः क्षन्ता भक्तकृतागसाम् ॥ १८० ॥

इति श्रीराघवेन्द्रार्य गुरुराजस्य योगिनः ।

चतुर्विंशति सम्युक्तं नाम्नां साहस्रमीरितम् ॥ १८१ ॥

इति श्रीकृष्णावधूत विरचितं श्री राघवेन्द्र सहस्रनाम स्तोत्रम् ॥