स्तोत्र

श्री राघवेन्द्र क्षमापण स्तोत्रम्

परिचय

श्री राघवेन्द्र क्षमापण स्तोत्रम् को स्तोत्र के रूप में प्रस्तुत किया गया है, जो स्तुति का एक भक्ति-पाठ है। यह मौलिक मार्गदर्शिका इसके विषय को समझने और परंपरा का सम्मान करते हुए आगे बढ़ने का स्थान देती है।

पाठ

श्रीलक्ष्म्योपेतं दक्षिणाङ्के वसन्त्या

चण्डज्योतिर्ज्योतिषं ताम्रवर्णम् ।

शय्याकारोऽनन्तभोगोपविष्टं

विष्णुं स्वप्नेऽदर्शयद्यो गुरुर्मे ॥ १ ॥

मुख्यप्राणं स्वर्णघण्टोपरिस्थं

सन्दर्श्यारादाभिमुख्येन पश्चात् ।

स्वापत्यं मां स्वान्तिके सूपवेश्य

स्वात्मानं मेऽदर्शयद्यः प्रमोदात् ॥ २ ॥

साक्षात् पुत्रापेक्षया वत्सलं म-

-य्येनं नित्यं मानसे मे वसन्तम् ।

स्मारं स्मारं स्थारतापाविलोऽपि

स्वच्छोऽहं श्रीराघवेन्द्रप्रसादात् ॥ ३ ॥

यस्मादस्मिन् राघवेन्द्रार्यतन्त्रे

पूर्णे जाते स्वप्न एवं विधोऽभूत् ।

तस्मादस्य श्रावणात् पाठतोऽपि

प्राणद्वारेणापरोक्ष्यं हरेः स्यात् ॥ ४ ॥

लक्ष्मीकान्ते स्वापरोक्षीकृतेऽस्मिन्

किं दुस्साध्यं दुःखबन्धः कथं स्यात् ।

ग्रन्थं चामुं राघवेन्द्रार्यतातः

स्वीचक्रे यत्तेन चासं कृतार्थः ॥ ५ ॥

त्वं मे माता त्वं पिता त्वं सखा च

त्व मे बन्धुः त्वं च दाता दयालुः ।

त्वं मे राजा पालकस्त्वं गुरुश्च

पुत्रोऽहं ते पाहि मां राघवेन्द्र ॥ ६ ॥

सर्वज्ञ त्वं मामकं सर्ववृत्तं

जानास्येव प्रत्यहं किं वदामि ।

ये ये पापाः सन्ति लोकेषु तेषां

अग्रे गण्ये नास्ति मे तद्गुणोऽणुः ॥ ७ ॥

एतादृक्षं चोद्धरेर्मां विधेयं

सत्यं ख्यातं ते दयालुत्वमेतत् ।

सर्वं त्वय्येवार्पितं मद्गुरुत्वात्

कार्याकार्यं कर्म तत्तत्फलं च ॥ ८ ॥

तत्र स्वीकुर्वात्मनो यद्यदिष्टं

पुत्रत्वान्मेऽथेतरत्वं सहस्व ।

अत्र प्रोक्तं मे ऋतं वाऽनृतं वा

तात क्षान्त्वा मोदमुच्चैरुपागाः ॥ ९ ॥

तात श्रीगुरुराघवेन्द्रयतिराट् श्रीराघवेन्द्रप्रभो

लोकागण्यगुणौघलालित तव स्तोत्राय नाऽलं वचः ।

नाऽलं बुद्धिरभूत्तव स्तवविधिप्रोत्साहमानस्य मे

किन्तु श्रोतृपठज्जनालसतया ते चाज्ञया पूर्यते ॥ १० ॥

यस्य यस्यास्ति दुर्दैवमूलनिर्नाशनार्हता ।

तस्य तस्यैव तन्त्रेऽस्मिन् आस्थास्तीत्यब्रवीद्गुरुः ॥ ११ ॥

अहं श्रीगुरुराजेन पित्रा प्रत्यक्षचोदितः ।

रहस्यं सफलं चष्टा न दूष्ये विदुषां धुरि ॥ १२ ॥

इति कृष्णावधूतेन वश्यवाणी विलासिना ।

श्रीगुरुप्रेमपुत्रेण गुरुराजप्रसादतः ॥ १३ ॥

कृतं श्रीराघवेन्द्रार्यतन्त्रं सद्यः फलप्रदम् ।

प्रीयतां तेन गुरुराट् हृद्गतौ मध्वमाधवौ ॥ १४ ॥

गुरुराज पिताऽसि मे कृपावा-

-निति निश्चित्य मयोद्धतं व्यभाणि ।

त्वदनन्यगतेर्ममानृतोक्तिः

सुतवात्सल्यतया कुरुष्व सत्याः ॥ १५ ॥

अनृणमयाचनमश्रम-

-मभयं न्याय्यं यथेष्टमप्रयत्नम् ।

अशनं वसनं सदनं दातुं

भोक्तुं ददासि चेत् तदलम् ॥ १६ ॥

इति श्रीकृष्णावधूतपण्डित कृतौ श्रीराघवेन्द्रतन्त्रे क्षमापणस्तोत्रं नाम चतुर्दशपटलः ॥