भक्ति पाठ
श्री मानसतीर्थ (मानससरोवर) स्तुतिः
परिचय
यह मौलिक मार्गदर्शिका श्री मानसतीर्थ (मानससरोवर) स्तुतिः और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।
पाठ
तीर्थं सुमानसं वन्दे कैलासगिरि संस्थितम् ।
संसारतापशमनं परमानन्ददायकम् ॥ १ ॥
श्रीतीर्थं मानसं वन्दे शिवाभ्यां नित्यसंस्थितम् ।
निर्मलं नित्यसंसेव्यं सच्चिदानन्दलक्षणम् ॥ २ ॥
गङ्गादि सर्वतीर्थेभ्यः पवित्रं पापनाशनम् ।
ब्रह्मादिसुरसंसेव्यं शिवानुग्रहकारणम् ॥ ३ ॥
ज्ञानरूपं ज्ञानगम्यं सत्यशान्तिप्रदं नृणाम् ।
नित्यशुद्धं शिवाकारं वन्दे श्रीमानसं सरः ॥ ४ ॥
मोक्षश्रीलसितं नित्यं शिवज्ञानप्रदायकम् ।
विश्वेश्वरवराल्लभ्यं वन्देऽहं मानसाह्वयम् ॥ ५ ॥
श्रीमन्मानसतीर्थराजमनिशं कैलासशैलस्थितं
नित्यं भूतपतेस्तथैव गिरिजा स्नानैक पूतं शिवम् ।
ये नित्यं हृदि संस्मरन्ति मनुजाः मोक्षैक सम्पादकाः
तस्मात् नित्यमनुस्मरन्तु सुजनाः तीर्थं परं मानसम् ॥ ६ ॥
संवेद्यं निगमागमादिविनुतं कैवल्यसम्पादकं
नानायोगिमुनीन्द्रचारणगणैः सिद्धैः सुरैः सेवितम् ।
संसेव्यं सकलैर्जनैर्भुविमुदा संसारतापापहं
विख्यातं विजयप्रदं भुविनृणां सन्दर्शनान्मोक्षदम् ॥ ७ ॥
नित्यानन्द रसालयं निरुपमं सद्भक्तकल्पद्रुमं
नानाऽसार सुसारभूतममलं त्रैलोक्यसंरक्षकम् ।
विख्यातं विजयप्रदं विधिनुतं विश्वेशसम्पालितं
विश्वज्ञान विभूति भासितपदं विश्वैक शान्तिप्रदम् ॥ ८ ॥
शैवाद्वैत सुसिद्धिदं शिवपरं श्रीमानसं नौम्यहं
नानाकारणकारणं नतजनश्रेयैकसम्पत्प्रदम् ।
विश्वोत्पत्ति विनाश रक्षणचणं विश्वैकसम्मोहनं
श्रीमन्निर्मलरामनाथ विदुषा सङ्कीर्तितं सर्वदा ॥ ९ ॥
श्रीमत्पावनपावनं शृतिशिरोवेद्यं शिवज्ञानदं
श्रीमन्नन्दि शिवैकपार्षदनुतं पीयूषसारोपमम् ।
सर्वज्ञादि सुलक्षणैक निलयं नित्यैक भव्योत्सवं
श्रीमन्मानसतीर्थराजममलं भूत्यै भुवः सर्वदा ॥ १० ॥
इति गुरुमूर्ति शिवयोगि श्री निर्मल रामनाथ शर्म कृत श्री मानसतीर्थ स्तुतिः ॥