भक्ति पाठ

श्रीगुरुगुणस्तवनम्

परिचय

यह मौलिक मार्गदर्शिका श्रीगुरुगुणस्तवनम् और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

उन्मीलन्नीलनीरेरुहनिवहमहःपुष्टिमुष्टिन्धयिश्रीः

श्रीभूदुर्गादृगन्तप्रचयपरिचयोदारकिर्मीरभावः ।

स्वैरक्षीरोदनिर्यच्छशिरुचिनिचयाखर्वगर्वापनोदी

पातु श्रीनेतुरस्मान् सपदि बुधजनत्राणदक्षः कटाक्षः ॥ १ ॥

मातस्त्वामुपकल्पिताखिलजगत्सर्गेऽजभर्गेडिते

चेतो न प्रजहारु जारुचिदिह स्वर्गेऽपवर्गेऽपि नः । [-हातु जातु-]

लावण्यादधरीकृतामरवधूवर्गे निसर्गेहितं

कारुण्यं कुरु मा कृथा मयि पुनर्दुर्गे विसर्गे मतिम् ॥ २ ॥

श्रीमद्रामाभिरामामितमहिमपदप्रौढपाथोरुहालिः

कृष्णानिष्टामितक्ष्मापरिवृढपटलीपाटनैकप्रवीणः ।

वेदव्यासोपदेशाधिकसमधिगतानन्तवेदान्तभावो

भूयात् कीशावनीशव्रतितनुरनिलः श्रेयसे भूयसे नः ॥ ३ ॥

उद्वेलव्यासतन्त्रव्यवसितनिखिलाभिज्ञहृदाऽनवद्या-

-नन्तत्रय्यन्तभावप्रकटनघटनासर्वतन्त्रस्वतन्त्रे ।

संवर्ण्ये मन्त्रवर्णैरनितरविषयस्पर्शिभिः पावमाने

रूपे लोकैकदीपे प्रसरतु हृदयं मामकं मध्वनाम्नि ॥ ४ ॥

विज्ञानोदर्कतर्कप्रतिपदमधुरोदारसन्दर्भगर्भ-

-प्रौढानेकप्रबन्धप्रकटितभगवत्पादभाष्यादिभावः ।

मिथ्यावादापवादप्रकुपितविमतध्वान्तसन्तानभानु-

-र्जीयादन्यैरजय्यास्त्रिभुवनविदिताश्चर्यचर्यो जयार्यः ॥ ५ ॥

श्रीमत्पूर्णप्रबोधप्रकटितपदवीधाविमेधाविधीमत्-

-सेनानासीरसीमासमुदितविदिताबाधयोधाधिनेता ।

मायसिद्धान्तदीक्षाविघटनघटनासर्वतन्त्रस्वतन्त्रः

श्रीरामव्यासदासो विलसति विबुधेन्द्राभिधः सम्यमीन्द्रः ॥ ६ ॥

मायातन्त्रामरारिस्मयमपनयतो मध्वसिद्धान्तनाम्नो

नेत्राणीव त्रयोऽपि त्रिजगति नृहरेरिन्धते यत्प्रबन्धाः ।

यद्वागद्वैतविद्याचलकुलकुलिशप्रौढिमाढौकते सः

श्रेयो भूयो विदध्यात् सुमहितमहिमा सम्प्रति व्यासराजः ॥ ७ ॥

चातुर्यैकाकृतिर्यश्चतुरधिकशतग्रन्थरत्नप्रणेता

धूतारातिप्रबन्धः स्फुटविदितचतुःषष्टिविद्याविशेषः ।

सोऽयं नः श्रीसुरेन्द्रव्रतिवरतनयोऽद्वैतशैवासहिष्णुः

पुष्णातु श्रीजयीन्द्रस्त्रिभुवनविदितः सर्वतन्त्रस्वतन्त्रः ॥ ८ ॥

व्याधूतावद्यहृद्यामितकृतिरचनाचारुचातुर्यहृष्यत्-

-कर्णाटक्षोणिपालप्रतिपदरचितानेकरत्नाभिषेकः ।

पत्रीशारूढलक्ष्मीपतिपदनलिनोदग्ररोलम्बलीलो

विख्यातः श्रीसुधीन्द्रव्रतिपतिरतुलं भद्रमुन्निद्रयेन्नः ॥ ९ ॥

धूतावद्यैरविद्याविघटनपटुभिर्विद्वदभ्यर्थनीयै-

-र्वाचः प्राचां प्रवाचामुपचयमभजन् यत्कृतग्रन्थजातैः । [-जालैः]

सङ्ख्यावन्तो यमाहुर्मुहुरखिलकलामूर्तिमुद्वेलकीर्ति-

-र्धीर श्रीराघवेन्द्रः स दिशतु सततं भव्यमव्याहतं नः ॥ १० ॥

ये रामव्यासपादप्रणिहितमनसो मध्वतन्त्रप्रतिष्ठा-

-धुर्यामर्यादसंवित्सुमहितसुमतीन्द्रार्यशिष्याग्रगण्याः ।

नित्यत्रय्यन्तचिन्तापरिणतविशदाशेषतत्त्वावबोध-

-प्रख्यातान् तानुपेन्द्रव्रतिविबुधमणीन् देशिकानाश्रयेऽहम् ॥ ११ ॥

योगो यः कर्मनामा कविभिरभिहितो यश्च विज्ञानसञ्ज्ञः

शक्तो नासिद्धकायस्तनुमतिरनयोस्तावदावर्जनेऽहम् ।

यश्चोपायैरुपेयः स्थिरफलविधये देशिकस्यप्रसाद-

-स्तस्मै तस्य स्तुवीयानिशमपि चरितं राघवेन्द्रव्रतीन्द्रोः ॥ १२ ॥

एष श्रीराघवेन्द्रव्रतिवरचरिताम्भोनिधिः क्वातिवेलः

क्वासौ खद्योतपोतप्रमुषितविभवश्चेतसो नः प्रकाशः ।

वन्ध्यैवातः प्रतिज्ञा तदतुलनिखिलाश्चर्यचर्याभिधाने

स्थानेऽथापि क्वचित् स्यादिह पुनरुदधिस्नानसङ्कल्पवत् स्यात् ॥ १३ ॥

यद्भानौ यत्कृशानौ यदमृतकिरणे यद्ग्रहेषूदितेषु

ज्योतिर्यत्तारकासु प्रथितमणिषु यद्यच्च सौदामिनीषु ।

सम्भूयैतत् समस्तं त्वदमितहृदयाकाशनिर्यत्प्रकाशे

धीर श्रीराघवेन्द्रव्रतिवर भजते हन्त खद्योतरीतिम् ॥ १४ ॥

चित्ते नायुक्तमर्थं कलयति सहसा नाभिधत्ते न सद्भिः

साकं मीमांसते वानलिखति वचसोद्घाटयत्याशयं स्वम् ।

उक्तं नो वक्ति भूयः क्वचिदपि लिखितं नैव निर्मार्ष्टि तस्मा-

-दस्माभिः सत्प्रबन्धप्रणयनविषये स्तूयते राघवेन्द्रः ॥ १५ ॥

धीर श्रीराघवेन्द्रं कृतनिजविजयस्रग्धरार्थप्रकाशं

दृष्ट्वा सन्तुष्टचेता दशमतिरचिरादभ्यषिञ्चत् पदे स्वे ।

नूनं वाणी तदीयानननलिनगता तत्कृतस्वप्रियैक-

-प्रत्यासङ्गप्रहृष्टा स्वयमपि तदनु स्वे पदे चाभ्यषिञ्चत् ॥ १६ ॥

ग्रन्थो वादावली द्रागभजत विदितो दुर्मतारण्यदाहा-

-दापूर्वार्धप्रतीपक्रमपरिपठितस्वाभिधागोचरत्वम् । [पठैत]

तस्य श्रीराघवेन्द्र व्रतिवर भवतो वायुवंशप्रसूते-

-रेतर्ह्रौद्दीपनं यत्तदुचितमिति मे मानसी वृत्तिरिन्धे ॥ १७ ॥

वन्दारुप्राणिचेतः श्रिततिमिरपरीभावकौशल्यभाजः

तेजस्ते राघवेन्द्र व्रतिवर किमिति श्रीमतो वर्णयामः ।

येनैषा चन्द्रिकाऽपि त्रिभुवनविशदा सत्पथोदञ्चितश्रीः

लेभे सर्वज्ञमौलिप्रकटितविभवा त्वत्त एव प्रकाशम् ॥ १८ ॥

धीर श्रीराघवेन्द्र त्वदतुलरसनारङ्गनृत्यत्स्वयम्भू-

-योषाधम्मिल्लभारश्लथकुसुमततीस्त्वद्गिरः सङ्गिरामः ।

याभिः संमिश्रिताभिर्निरवधिवसुधा विश्रुता सा सुधाऽपि

क्षोणीगीर्वाणगम्यं परिमलमतुलं साम्प्रतं सम्प्रपेदे ॥ १९ ॥

प्रायः प्रागन्यदीयातनुतरविवृतिग्रन्थवासोविहीना

ह्रीणा नादर्शि धीरैरपि किल युवतिर्भाष्यटीकाभिधाना ।

अद्य श्रीराघवेन्द्रव्रतिकृतविवृतिप्रौढकौशेयरत्नं

स्वेहायुक्तं वसाना विहरति सुधियामग्रतः स्वैरिणीव ॥ २० ॥

ग्रन्थोऽयं न्यायमुक्तावलिरिति भवता राघवेन्द्र प्रणीतो

नूनं मुक्तावलिर्यत् प्रथममुपचितादुद्धृतस्तन्त्रसिन्धोः ।

प्रोतश्च ज्ञानतन्तौ तदनु तव गुणप्रौढिमाशंसतां नः

कण्ठेषु प्रेमभूम्ना बहुमतिविधये वाऽधुना सन्न्यधायि ॥ २१ ॥

हन्तानन्तोऽणुभाष्ये विलसति भगवत्पादसंवर्णितोऽर्थः

सत्यं प्रत्येतु लोकः कथमिदमधुना तस्य टीकां विना ते ।

धीर श्रीराघवेन्द्र व्रतिवर निवसद्विश्वमास्यान्तराले

स्तोक्ते तोकस्य शौरेरतिभृशकुपितां तत्प्रसूमन्तरेव ॥ २२ ॥

भिन्नैरर्थैरनेकप्रकरणभणितैरद्य मध्वागमाब्धौ

मत्या भूयो विचिन्त्य श्रुतिपरिणतया शस्तया सङ्गृहीतैः ।

सूत्रेष्वेकैकशोऽपि व्रतिवर भवता योजितेषु प्रवाचां

मोदो यावन्न तादृक् तव पुनरितरै राघवेन्द्रप्रबन्धैः ॥ २३ ॥

धीर श्रीराघवेन्द्रव्रतिवर सुजनानुग्रहव्यग्रचित्तै-

-राचार्यैः सङ्गृहीताः कतिचन मनवः सारभूताः श्रुतिभ्यः ।

तानेवोद्धृत्य भूयः श्रुतिषु निदधाता शिष्यवर्गोपक्लप्त्यै

लोके साधु व्यधायि श्रुतगुण भवताऽऽचार्यचर्यानुवृत्तिः ॥ २४ ॥

गीतामत्यर्थधूतश्रितजनदुरितामिन्दुवंशप्रसूतौ

व्याचक्षाणे मुरद्विष्यभिजनमभजद्भद्रमिन्दोरनिद्रम् ।

धीर श्रीराघवेन्द्र त्वयि पुनरनघे हंसवंशोदिते तां

व्याकुर्वत्यद्य भव्यं कथमिव न भजेदाशु मित्रान्ववायुः ॥ २५ ॥

न स्यादीशप्रसादो गुरुवरकरुणामन्तरेणेति रूढो

धीर श्रीराघवेन्द्र व्रतिवर सुदृढश्चेतसस्ते विपाकः ।

येन व्याख्याय गीतामपि गुरुचरणोदारतद्भाष्यटीका-

-व्याख्या विख्यातविद्वन्मणिगणविनुताऽकारि भूयस्त्वयैव ॥ २६ ॥

नानातन्त्रप्रसङ्गत्रिभुवनविदितोदारसारस्वतोऽपि

प्रत्नानेकप्रबन्धप्रवचनरचनावित्ततत्कौशलोऽपि ।

शश्वद्व्याख्यातगीताकृतिरपि विबुधानुग्रहैकाग्रचित्तो

गीतातात्पर्यटीकाविवरणमकरोदद्भुतं राघवेन्द्र ॥ २७ ॥

लक्ष्मीनारायणार्यस्तव तनयमणिः सत्सु सर्वेषु धन्यो

यस्मादृग्भाष्यटीकाऽतनुतरविवृतेरञ्जसा तत्कृतायाः ।

प्रेम्णा विद्वत्सु भूयः प्रचयमभिलषन् राघवेन्द्र व्रतीन्द्र

प्रावोचस्त्वं प्रतीतव्रत निचयमृचामेव भाष्यानुरोधात् ॥ २८ ॥

हृद्यत्रय्यन्तविद्यामुखनिखिलकलातत्त्वबोधैकमूर्ते

धीर श्रीराघवेन्द्रव्रतिवर सकलान्येव सूक्तानि सम्यक् ।

व्याकुर्वन्तं भवन्तं व्यवसितमतयो हन्त निध्यासयन्तः

सर्वे भूयः स्मरन्ति व्रतसमितिमणेर्ब्रह्मसूत्रप्रेणेतुः ॥ २९ ॥

यावद्वेदान्तखण्डप्रवचनकृतिनि प्रेमभूमा न तादृक्

सर्वाम्नायप्रवक्तर्यनुपमचरिते राघवेन्द्रव्रतीन्द्रे ।

इत्येतद्देहभाजामतिविशदरुचौ जागरूकेऽपि लोके

राकाचन्द्रे द्वितीयाशशिशकलनतिन्यायमेवानुरुन्धे ॥ ३० ॥

हृद्या टीकाऽनवद्या परविवृतयजुस्सामसम्बन्धिनी ते

मालिन्यक्षालनाम्भः स्वयमजनि हरेरुत्तराङ्गे च मूर्ध्नि ।

सैवर्चां राघवेन्द्र व्रतिसमितिमणेऽनन्यसम्पर्कभाजां

औजिष्ठे दक्षिणाङ्गे मृगमदमिलितोद्गारपाटीरसारः ॥ ३१ ॥

नूनं वाक्यानुरोधिप्रकरणमखिलं नेयमित्युक्तमुच्चैः

प्राचां वाचम्यमेन प्रकटितविभवानन्तवेदान्तवाचा ।

स्वामिन्नेतत्प्रतीयः कथमिव कवयो राघवेन्द्र व्रतीन्द्रो

येन त्वद्वाक्यजातं प्रकरणनिकरं तावदद्यानुरुन्धे ॥ ३२ ॥

विख्यातश्रीसुधीन्द्रव्रतिसुत भवता साधुगीते सुतर्के

सद्यः प्रत्यर्थिहृद्ये मुनिमणिरचिते ताण्डवे योजितार्थे ।

प्रत्याख्यातप्रकाशः समजनि भुवने हन्त चिन्तामणिस्त्वं

ब्रूहि श्रीराघवेन्द्रव्रतिविबुधमणे कस्त्वदन्यो वदान्यः ॥ ३३ ॥

प्रौढानेकप्रबन्धप्रवचनरचनालब्धविस्रब्धकीर्ते-

-स्ते किं न्यायामृतस्याविवरणविधिना राघवेन्द्रायशः स्यात् ।

यद्राज्यप्रच्यवेनाखिलभुवनपते राघवस्येव कीर्तिः

लब्धैव प्रत्युतालं गुरुचरणकृतामोदनिर्वाहजन्या ॥ ३४ ॥

वाचा सङ्क्षिप्तया यद्बहुचरितमुपावर्णयस्त्वं मुरारेः

किं च श्रीराघवेन्द्र व्रतिप रघुपतेस्तेन नो विस्मयेऽहम् ।

किं वा दुःसाध्यमस्ति त्रिजगति महतामात्मनः पाणिपद्मे

पश्यामन्दो मरन्द किलघटजनुषा चोलिराकारि सिन्धुः ॥ ३५ ॥

मन्त्रिश्रीनीलकण्ठाभिधमखिमणिना भट्‍टतन्त्रानुबन्धे

ग्रन्थे तावत्त्वदीये करिणि गुणविदाऽऽरोपितेऽभ्यर्हणाय ।

कीर्तिस्ते राघवेन्द्र व्रतिसुमतिमणे नूनमन्यूनवेगा

दिङ्नागानारुरुक्षुः स्वयमपि सहसाऽद्यावदष्टौ दिगन्तान् ॥ ३६ ॥

व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः

प्रत्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।

मौनीशव्यासराजादुदितकिसलयः पुष्पितोऽयं जयीन्द्रा-

-दद्य श्रीराघवेन्द्राद्विलसति फलिति मध्वसिद्धान्तशाखी ॥ ३७ ॥ [फलितो]

इति श्रीराघवेन्द्रार्योभयवंशाब्धिचन्द्रमाः ।

उपेन्द्रसूनुर्वादीन्द्रश्चक्रे गुरुगुणस्तवम् ॥ ३८ ॥

माद्यदद्वैतविद्यावद्गर्वनिर्वापणक्षमः ।

वादीन्द्रयतिराट् तेने भक्त्या गुरुगुणस्तवम् ॥ ३९ ॥

इति श्रीवादीन्द्रतीर्थ विरचितं श्री गुरुगुण स्तवनम् ॥