अष्टकम्
श्री अष्टभुजाष्टकम्
परिचय
श्री अष्टभुजाष्टकम् को अष्टकम् के रूप में प्रस्तुत किया गया है, जो श्लोकों की एक केंद्रित श्रृंखला से जुड़ी एक भक्ति-स्तुति है। यह मार्गदर्शिका संदर्भ देती है और पाठ या व्याख्या का कोई एक निश्चित ढंग नहीं बताती।
पाठ
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
गजेन्द्ररक्षात्वरितं भवन्तं
ग्राहैरिवाहं विषयैर्विकृष्टः ।
अपारविज्ञानदयानुभाव-
-माप्तं सतामष्टभुजं प्रपद्ये ॥ १ ॥
त्वदेकशेषोऽहमनात्मतन्त्र-
-स्त्वत्पादलिप्सां दिशता त्वयैव ।
सत्तामिदानीमुपलम्भितोऽस्मि ॥ २ ॥
स्वरूपरूपास्त्रविभूषणाद्यैः
परत्वचिन्तां त्वयि दुर्निवाराम् ।
भोगे मृदूपक्रमतामभीप्सन्
शीलादिभिर्वारयसीव पुंसाम् ॥ ३ ॥
शक्तिं शरण्यान्तरशब्दभाजां
सारं च सन्तोल्य फलान्तराणाम् ।
त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं
न्यस्तात्मनां नाथ बिभर्षि भारम् ॥ ४ ॥
नाथ त्वदन्यं न विभावयामि ।
भयं कुतः स्यात् त्वयि सानुकम्पे
रक्षा कुतः स्यात् त्वयि जातरोषे ॥ ५ ॥
त्वदेकतन्त्रं कमलासहाय
स्वेनैव मां रक्षितुमर्हसि त्वम् ।
त्वयि प्रवृत्ते मम किं प्रयासै-
-स्त्वय्यप्रवृत्ते मम किं प्रयासैः ॥ ६ ॥
समाधिभङ्गेष्वपि सम्पतत्सु
शरण्यभूते त्वयि बद्धकक्ष्ये ।
अपत्रपे सोढुमकिञ्चनोऽहं
दूराधिरोहं पतनं च नाथ ॥ ७ ॥
प्राप्ताभिलाषं त्वदनुग्रहान्मां
पद्मानिषेव्ये तव पादपद्मे ।
आदेहपातादपराधदूर-
-मात्मान्तकैङ्कर्यरसं विधेयाः ॥ ८ ॥
प्रपन्न जनपाथेयं प्रपित्सूनां रसायनम् ।
श्रेयसे जगतामेतच्छ्रीमदष्टभुजाष्टकम् ॥ ९ ॥
शरणागतसन्त्राणत्वराद्विगुणबाहुना ।
हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम् ॥ १० ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
इति श्री वेदान्तदेशिक कृतं श्री अष्टभुजाष्टकम् ।