स्तोत्र

श्री विष्णु स्तोत्रम् (सङ्कष्टनाशनम्)

श्री विष्णु स्तोत्रम् (सङ्कष्टनाशनम्)

परिचय

श्री विष्णु स्तोत्रम् (सङ्कष्टनाशनम्) को स्तोत्र के रूप में प्रस्तुत किया गया है, जो स्तुति का एक भक्ति-पाठ है। यह मौलिक मार्गदर्शिका इसके विषय को समझने और परंपरा का सम्मान करते हुए आगे बढ़ने का स्थान देती है।

पाठ

नारद उवाच ।

पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।

भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥

देवा ऊचुः ।

नमो मत्स्यकूर्मादिनानास्वरूपैः

सदा भक्तकार्योद्यतायाऽऽर्तिहन्त्रे ।

विधात्रादि सर्गस्थितिध्वंसकर्त्रे

गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥

रमावल्लभायाऽसुराणां निहन्त्रे

भुजङ्गारियानाय पीताम्बराय ।

मखादिक्रियापाककर्त्रे विकर्त्रे

शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥

नमो दैत्यसन्तापितामर्त्यदुःखा-

-चलध्वंसदम्भोलये विष्णवे ते ।

भुजङ्गेशतल्पेशयानाऽर्कचन्द्र-

-द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥

नारद उवाच ।

सङ्कष्टनाशनं नाम स्तोत्रमेतत् पठेन्नरः ।

स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥

इति स्कान्दपुराणे द्वितीये वैष्णवखण्डे कार्तीकमासमाहात्म्ये षोडशोऽध्याये सङ्कष्टनाशन श्री विष्णु स्तोत्रम् ।

"देवनागरि" ,