भक्ति पाठ
न्यास दशकम्
परिचय
यह मौलिक मार्गदर्शिका न्यास दशकम् और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।
पाठ
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
अहं मद्रक्षणभरो मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥ १ ॥
न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वं आत्मरक्षाभरं त्वयि ॥ २ ॥
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥
त्वच्छेषत्वे स्थिरधियं त्वत् प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥ ५ ॥
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥
मां मदीयं च निखिलं चेतनाऽचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ॥ १० ॥
मङ्गलश्लोकः –
संसारावर्तवेगप्रशमनशुभदृग्देशिकप्रेक्षितोहं
सन्त्यक्तोन्यैरुपायैरनुचितचरितेश्वद्य शान्ताभिसन्धिः ।
निश्शङ्कस्तत्त्वदृष्ट्वा निरवधिकदयं प्रार्थ्य संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोस्मि ॥
इति श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यास दशकम् ॥