अष्टकम्
नारायणाष्टाक्षरी स्तुति
परिचय
नारायणाष्टाक्षरी स्तुति को अष्टकम् के रूप में प्रस्तुत किया गया है, जो श्लोकों की एक केंद्रित श्रृंखला से जुड़ी एक भक्ति-स्तुति है। यह मार्गदर्शिका संदर्भ देती है और पाठ या व्याख्या का कोई एक निश्चित ढंग नहीं बताती।
पाठ
ओं नमः प्रणवार्थार्थ स्थूल सूक्ष्म क्षराक्षर ।
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥
नमो देवादिदेवाय देहसञ्चारहेतवे ।
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥
मोहनं विश्वरूपं च शिष्टाचारसुपोषितम् ।
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥
नारायणाय नव्याय नरसिंहाय नामिने ।
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥
रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम् ।
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५ ॥
यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च ।
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६ ॥
णाकारं लोकविख्यातं नानाजन्मफलप्रदम् ।
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७ ॥
यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः ।
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८ ॥
नारायणः परं ब्रह्म नारायणः परन्तपः ।
नारायणः परो देवः सर्वं नारायणः सदा ॥
इति श्री नारायण अष्टाक्षरी स्तुतिः ।