भक्ति पाठ

Kataksha satakam (4) : मूकपञ्चशति – ४ – कटाक्षशतकम्

Kataksha satakam (4) : मूकपञ्चशति – ४ – कटाक्षशतकम्

परिचय

यह मौलिक मार्गदर्शिका Kataksha satakam (4) : मूकपञ्चशति – ४ – कटाक्षशतकम् और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

मोहान्धकारनिवहं विनिहन्तुमीडे

मूकात्मनामपि महाकवितावदान्यान् ।

श्रीकाञ्चिदेशशिशिरीकृतिजागरूका-

-नेकाम्रनाथतरुणीकरुणावलोकान् ॥ १ ॥

मातर्जयन्ति ममताग्रहमोक्षणानि

माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।

कामाक्षि कल्पितजगत्त्रयरक्षणानि

त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥

आनङ्गतन्त्रविधिदर्शितकौशलाना-

-मानन्दमन्दपरिघूर्णितमन्थराणाम् ।

तारल्यमम्ब तव ताडितकर्णसीम्नां

कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥

कल्लोलितेन करुणारसवेल्लितेन

कल्माषितेन कमनीयमृदुस्मितेन ।

मामञ्चितेन तव किञ्चन कुञ्चितेन

कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥

साहाय्यकं गतवती मुहुरर्जुनस्य

मन्दस्मितस्य परितोषितभीमचेताः ।

कामाक्षि पाण्डवचमूरिव तावकीना

कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥

अस्तं क्षणान्नयतु मे परितापसूर्य-

-मानन्दचन्द्रमसमानयतां प्रकाशम् ।

कालान्धकारसुषुमां कलयन्दिगन्ते

कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६ ॥

ताटङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः

कारुण्यहस्तिपशिखामणिनाधिरूढः ।

उन्मूलयत्वशुभपादपमस्मदीयं

कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७ ॥

छायाभरेण जगतां परितापहारी

ताटङ्करत्नमणितल्लजपल्लवश्रीः ।

कारुण्यनाम विकिरन्मकरन्दजालं

कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८ ॥

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-

-लौहित्यकोकनदकाननमाननीया ।

यान्ती तव स्मरहराननकान्तिसिन्धुं

कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९ ॥

प्राप्नोति यं सुकृतिनं तव पक्षपाता-

-त्कामाक्षि वीक्षणविलासकलापुरन्ध्री ।

सद्यस्तमेव किल मुक्तिवधूर्वृणीते

तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १० ॥

यान्ती सदैव मरुतामनुकूलभावं

भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।

कामाक्षि कौतुकतरङ्गितनीलकण्ठा

कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥

गङ्गाम्भसि स्मितमये तपनात्मजेव

गङ्गाधरोरसि नवोत्पलमालिकेव ।

वक्त्रप्रभासरसि शैवलमण्डलीव

कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥

संस्कारतः किमपि कन्दलितान् रसज्ञ-

-केदारसीम्नि सुधियामुपभोगभाग्यान् । [योग्यान्]

कल्याणसूक्तिलहरीकलमाङ्कुरान्नः

कामाक्षि कन्दलयतु त्वदपाङ्गमेघः ॥ १३ ॥

चाञ्चल्यमेव नियतं कलयन् प्रकृत्या

मालिन्यभूः श्रुतिपथाक्रमजागरूकः ।

कैवल्यमेव किमु कल्पयते नतानां

कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥

सञ्जीवने जननि चूतशिलीमुखस्य

संमोहने शशिकिशोरकशेखरस्य ।

संस्तम्भने च ममताग्रहचेष्टितस्य

कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥

नीलोऽपि रागमधिकं जनयन्पुरारे-

-र्लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् ।

वक्रोऽपि देवि नमतां समतां वितन्व-

-न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥

कामद्रुहो हृदययन्त्रणजागरूका

कामाक्षि चञ्चलदृगञ्चलमेखला ते ।

आश्चर्यमम्ब भजतां झटिति स्वकीय-

-सम्पर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू-

-चापाञ्चितः श्रितविदेहभवानुरागः ।

रक्षोपकारमनिशं जनयन् जगत्यां

कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥

श्रीकामकोटि शिवलोचनशोषितस्य

शृङ्गारबीजविभवस्य पुनः प्ररोहे ।

प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के

केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य-

संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः ।

धैर्याम्बुधिं पशुपतेश्चुलकीकरोति

कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २० ॥

पीयूषवर्षशिशिरा स्फुटदुत्पलश्री-

-मैत्री निसर्गमधुरा कृततारकाप्तिः ।

कामाक्षि संश्रितवती वपुरष्टमूर्ते-

-र्ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१ ॥

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ-

-मम्भोजकाननमिवाञ्चितकण्टकाभम् ।

भृङ्गीव चुम्बति सदैव सपक्षपाता

कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥

कामाक्षि कुण्डलमणिच्छविदीपशोभे ।

कम्रे कटाक्षरुचिरङ्गतले कृपाख्या [शङ्के]

शैलूषकी नटति शङ्करवल्लभे ते ॥ २३ ॥ [शैलूषिका]

अत्यन्तशीतलमतन्द्रयतु क्षणार्ध-

-मस्तोकविभ्रममनङ्गविलासकन्दम् ।

अल्पस्मितादृतमपारकृपाप्रवाह-

-मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥

मन्दाक्षरागतरलीकृतिपारतन्त्र्या-

-त्कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् ।

आरुह्य मन्दमतिकौतुकशालि चक्षु-

-रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-

-रङ्गं विहारसरसी करुणाप्रवाहः ।

दासाश्च वासवमुखाः परिपालनीयं

कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥

वागीश्वरी सहचरी नियमेन लक्ष्मी-

-र्भ्रूवल्लरीवशकरी भुवनानि गेहम् ।

रूपं त्रिलोकनयनामृतमम्ब तेषां

कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥

माहेश्वरं झटिति मानसमीनमम्ब

कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।

जालेन शृङ्खलयति त्वदपाङ्गनाम्ना

विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥

उन्मथ्य बोधकमलाकरमम्ब जाड्य-

-स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।

कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना

कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासै-

-रुत्थाय देवि तव गाढकटाक्षकुञ्जात् ।

दूरं पलाययतु मोहमृगीकुलं मे

कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥

स्नेहादृतां विदलितोत्पलकान्तिचोरां

जेतारमेव जगदीश्वरि जेतुकामः ।

मानोद्धतो मकरकेतुरसौ धुनीते

कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां

कामाक्षि सन्ततमपि स्मृतिमार्गगामी ।

कौटिल्यमम्ब कथमस्थिरतां च धत्ते

चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥

नित्यं श्रुतेः परिचितौ यतमानमेव

नीलोत्पलं निजसमीपनिवासलोलम् ।

प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः

कामाक्षि किं नु तव कालिमसम्प्रदायम् ॥ ३३ ॥

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ

कामाक्षि वक्त्ररुचिसञ्चयवारिराशौ ।

आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी-

-रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः

कामाक्षि कन्दलितमेदुरतारकान्तिः ।

ज्योत्स्नावती स्मितरुचापि कथं तनोति

स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥

कालाञ्जनं च तव देवि निरीक्षणं च

कामाक्षि साम्यसरणिं समुपैति कान्त्या ।

निश्शेषनेत्रसुलभं जगतीषु पूर्व-

-मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥ ३६ ॥

धूमाङ्कुरो मकरकेतनपावकस्य

कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।

अत्यन्तमद्भुतमिदं नयनत्रयस्य

हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ॥

आरम्भलेशसमये तव वीक्षणस्य

कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।

सर्वज्ञता सकललोकसमक्षमेव

कीर्तिः स्वयंवरणमाल्यवती वृणीते ॥ ३८ ॥

कालाम्बुवाह इव ते परितापहारी

कामाक्षि पुष्करमधः कुरुते कटाक्षः ।

पूर्वः परं क्षणरुचा समुपैति मैत्री-

-मन्यस्तु सन्ततरुचिं प्रकटीकरोति ॥ ३९ ॥

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-

-साहाय्यकेन विचरन्नपवर्गमार्गे ।

संसारपङ्कनिचये न पतत्यमुं ते

कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४० ॥

कामाक्षि सन्ततमसौ हरिनीलरत्न-

-स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः ।

बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती

स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥

कामाक्षि कार्ष्ण्यमपि सन्ततमञ्जनं च

बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।

वैमल्यमन्वहमनञ्जनतां च भूयः

स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२ ॥

मन्दस्मितस्तबकितं मणिकुण्डलांशु-

-स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।

कामाक्षि राजति कटाक्षरुचेः कदम्ब-

-मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥

कामाक्षि तावककटाक्षमहेन्द्रनील-

-सिंहासनं श्रितवतो मकरध्वजस्य ।

साम्राज्यमङ्गलविधौ मणिकुण्डलश्री-

-र्नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥

मातः क्षणं स्नपय मां तव वीक्षितेन

मन्दाक्षितेन सुजनैरपरोक्षितेन ।

कामाक्षि कर्मतिमिरोत्करभास्करेण

श्रेयस्करेण मधुपद्युतितस्करेण ॥ ४५ ॥

प्रेमापगापयसि मज्जनमारचय्य

युक्तः स्मितांशुकृतभस्मविलेपनेन ।

कामाक्षि कुण्डलमणिद्युतिभिर्जटालः

श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥

कैवल्यदाय करुणारसकिङ्कराय

कामाक्षि कन्दलितविभ्रमशङ्कराय ।

आलोकनाय तव भक्तशिवङ्कराय

मातर्नमोऽस्तु परतन्त्रितशङ्कराय ॥ ४७ ॥

साम्राज्यमङ्गलविधौ मकरध्वजस्य

लोलालकालिकृततोरणमाल्यशोभे ।

कामेश्वरि प्रचलदुत्पलवैजयन्ती-

-चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥

मार्गेण मञ्जुकचकान्तितमोवृतेन

मन्दायमानगमना मदनातुरासौ ।

कामाक्षि दृष्टिरयते तव शङ्कराय

सङ्केतभूमिमचिरादभिसारिकेव ॥ ४९ ॥

व्रीडानुवृत्तिरमणीकृतसाहचर्या

शैवालितां गलरुचा शशिशेखरस्य ।

कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मी-

-र्मन्दं समाश्रयति मज्जनखेलनाय ॥ ५० ॥

काषायमंशुकमिव प्रकटं दधानो

माणिक्यकुण्डलरुचिं ममताविरोधी ।

श्रुत्यन्तसीमनि रतः सुतरां चकास्ति

कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥

पाषाण एव हरिनीलमणिर्दिनेषु

प्रम्लानतां कुवलयं प्रकटीकरोति ।

नौमित्तिको जलदमेचकिमा ततस्ते

कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः ॥ ५२ ॥

शृङ्गारविभ्रमवती सुतरां सलज्जा

नासाग्रमौक्तिकरुचा कृतमन्दहासा ।

श्यामा कटाक्षसुषमा तव युक्तमेत-

-त्कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३ ॥

नीलोत्पलेन मधुपेन च दृष्टिपातः

कामाक्षि तुल्य इति ते कथमामनन्ति ।

शैत्येन निन्दति यदन्वहमिन्दुपादा-

-न्पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते

भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।

कामाक्षि वारिभरपूरणलम्बमान-

-कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥

मन्दस्मितैर्धवलिता मणिकुण्डलांशु-

-सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा ।

कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च

नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥

कामाक्षि शीतलकृपारसनिर्झराम्भः

सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला ।

गोभिः सदा पुररिपोरभिलष्यमाणा

दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ॥

हृत्पङ्कजं मम विकासयतु प्रमुष्ण-

-न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।

दोषानुषङ्गजडतां जगतां धुनानः

कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥

चक्षुर्विमोहयति चन्द्रविभूषणस्य

कामाक्षि तावककटाक्षतमःप्ररोहः ।

प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां

प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते

नीलोत्पलं निरवशेषगताभिमानम् ।

आगत्य तत्परिसरं श्रवणावतंस-

-व्याजेन नूनमभयार्थनमातनोति ॥ ६० ॥

आश्चर्यमम्ब मदनाभ्युदयावलम्बः

कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।

धैर्यं विधूय तनुते हृदि रागबन्धं

शम्भोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ॥

जन्तोः सकृत्प्रणमतो जगदीड्यतां च

तेजास्वितां च निशितां च मतिं सभायाम् ।

कामाक्षि माक्षिकझरीमिव वैखरीं च

लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ॥

कादम्बिनी किमयते न जलानुषङ्गं

भृङ्गावली किमुररीकुरुते न पद्मम् ।

किं वा कलिन्दतनया सहते न भङ्गं

कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥

काकोलपावकतृणीकरणेऽपि दक्षः

कामाक्षि बालकसुधाकरशेखरस्य ।

अत्यन्तशीतलतमोऽप्यनुपारतं ते

चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥

कार्पण्यपूरपरिवर्धितमम्ब मोह-

-कन्दोद्गतं भवमयं विषपादपं मे ।

तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः

काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-

-मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।

तत्रापि देवि लभते सुकृती कदाचि-

-दत्यन्तदुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥

कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो

नानातपोनियमनाशितपाशबन्धाः ।

वासालयं तव कटाक्षममुं महान्तो

लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥

साकूतसंलपितगर्भितमुग्धहासं [सम्भृत]

व्रीडानुरागसहचारि विलोकनं ते ।

कामाक्षि कामपरिपन्थिनि मारवीर-

-साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय

भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।

स्वाधीनतां तव निनाय शशाङ्कमौले-

-रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥

कामाङ्कुरैकनिलयस्तव दृष्टिपातः

कामाक्षि भक्तमनसां प्रददाति कामान् ।

रागान्वितः स्वयमपि प्रकटीकरोति

वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥

कालाम्बुवाहनिवहैः कलहायते ते

कामाक्षि कालिममदेन सदा कटाक्षः ।

चित्रं तथापि नितराममुमेव दृष्ट्वा

सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ॥

कामाक्षि मन्मथरिपुं प्रति मारताप-

-मोहान्धकारजलदागमनेन नृत्यन् ।

दुष्कर्मकञ्चुकिकुलं कबलीकरोतु

व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२ ॥

कामाक्षि मन्मथरिपोरवलोकनेषु

कान्तं पयोजमिव तावकमक्षिपातम् ।

प्रेमागमो दिवसवद्विकचीकरोति

लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ॥

मूको विरिञ्चति परं पुरुषः कुरूपः

कन्दर्पति त्रिदशराजति किम्पचानः ।

कामाक्षि केवलमुपक्रमकाल एव

लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥

नीलालका मधुकरन्ति मनोज्ञनासा-

-मुक्तारुचः प्रकटरूढबिसाङ्कुरन्ति । [कन्द]

कारुण्यमम्ब मकरन्दति कामकोटि

मन्ये ततः कमलमेव विलोचनं ते ॥ ७५ ॥

आकाङ्क्ष्यमाणफलदानविचक्षणायाः ।

कामाक्षि तावककटाक्षककामधेनोः ।

सम्पर्क एव कथमम्ब विमुक्तपाश-

-बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥

संसारघर्मपरितापजुषां नराणां

कामाक्षि शीतलतराणि तवेक्षितानि ।

चन्द्रातपन्ति घनचन्दनकर्दमन्ति

मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥

प्रेमाम्बुराशिसततस्नपितानि चित्रं

कामाक्षि तावककटाक्षनिरीक्षणानि ।

सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या

मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८ ॥

कालाञ्जनप्रतिभटं कमनीयकान्त्या

कन्दर्पतन्त्रकलया कलितानुभावम् ।

काञ्चीविहाररसिके कलुषार्तिचोरं

कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥

क्रान्तेन मन्मथमदेन विमोह्यमान-

-स्वान्तेन चूततरुमूलगतस्य पुंसः ।

कान्तेन किञ्चिदवलोकय लोचनस्य

प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥

कामाक्षि केऽपि सुजनास्त्वदपाङ्गसङ्गे

कण्ठेन कन्दलितकालिमसम्प्रदायाः ।

उत्तंसकल्पितचकोरकुटुम्बपोषा

नक्तन्दिवप्रसवभूनयना भवन्ति ॥ ८१ ॥

नीलोत्पलप्रसवकान्तिनिदर्शनेन

कारुण्यविभ्रमजुषा तव वीक्षणेन ।

कामाक्षि कर्मजलधेः कलशीसुतेन

पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥

अत्यन्तचञ्चलमकृत्रिममञ्जनं किं

झङ्कारभङ्गिरहिता किमु भृङ्गमाला ।

धूमाङ्कुरः किमु हुताशनसङ्गहीनः

कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥

कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-

-बीजाय विभ्रममदोदयघूर्णिताय ।

कन्दर्पदर्पपुनरुद्भवसिद्धिदाय

कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥

दर्पाङ्कुरो मकरकेतनविभ्रमाणां

निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् ।

दीपाङ्कुरो भवतमिस्रकदम्बकानां

कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५ ॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः

कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः ।

कामाक्षि किङ्करितशङ्करमानसेभ्य-

-स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥

अल्पीय एव नवमुत्पलमम्ब हीना

मीनस्य वा सरणिरम्बुरुहां च किं वा ।

दूरे मृगीदृगसमञ्जसमञ्जनं च

कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥

मिश्रीभवद्गरलपङ्किलशाङ्करोरः-

सीमाङ्गणे किमपि रिङ्खणमादधानः ।

हेलावधूतललितश्रवणोत्पलोऽसौ

कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८ ॥

प्रौढीकरोति विदुषां नवसूक्तिधाटी-

-चूताटवीषु बुधकोकिललाल्यमानम् ।

माध्वीरसं परिमलं च निरर्गलं ते

कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९ ॥

कूलङ्कषं वितनुते करुणाम्बुवर्षी

सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।

तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं

कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥

जागर्ति देवि करुणाशुकसुन्दरी ते

ताटङ्करत्नरुचिदाडिमखण्डशोणे ।

कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-

-माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-

-दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।

किं च स्फुटं कुटिलतां प्रकटीकरोति

भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥

एषा तवाक्षिसुषमा विषमायुधस्य

नाराचवर्षलहरी नगराजकन्ये ।

शङ्के करोति शतधा हृदि धैर्यमुद्रां

श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३ ॥

बाणेन पुष्पधनुषः परिकल्प्यमान-

-त्राणेन भक्तमनसां करुणाकरेण ।

कोणेन कोमलदृशस्तव कामकोटि

शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४ ॥

मारद्रुहा मुकुटसीमनि लाल्यमाने

मन्दाकिनीपयसि ते कुटिलं चरिष्णुः ।

कामाक्षि कोपरभसाद्वलमानमीन-

-सन्देहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥

कामाक्षि संवलितमौक्तिककुण्डलांशु-

-चञ्चत्सितश्रवणचामरचातुरीकः ।

स्तम्भे निरन्तरमपाङ्गमये भवत्या

बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६ ॥

यावत्कटाक्षरजनीसमयागमस्ते

कामाक्षि तावदचिरान्नमतां नराणाम् ।

आविर्भवत्यमृतदीधितिबिम्बमम्ब

संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥ ९७ ॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो

दित्सुः समस्तविभवं नमतां नराणाम् ।

भृङ्गस्य नीलनलिनस्य च कान्तिसम्प-

-त्सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥

अज्ञातभक्तिरसमप्रसरद्विवेक-

-मत्यन्तगर्वमनधीतसमस्तशास्त्रम् ।

अप्राप्तसत्यमसमीपगतं च मुक्तेः

कामाक्षि नैव तव काङ्क्षति दृष्टिपातः ॥ ९९ ॥

अत्यन्तशीतलमनर्गलकर्मपाक-

-काकोलहारि सुलभं सुमनोभिरेतत् ।

पीयूषमेव तव वीक्षणमम्ब किं तु

कामाक्षि नीलमिदमित्ययमेव भेदः ॥ १०० ॥

पातेन लोचनरुचेस्तव कामकोटि

पोतेन पातकपयोधिभयातुराणाम् ।

पूतेन तेन नवकाञ्चनकुण्डलांशु-

-वीतेन शीतलय भूधरकन्यके माम् ॥ १०१ ॥

इति कटाक्षशतकम् ॥

मूकपञ्चशति – मन्दस्मितशतकम्(५) >>