भक्ति पाठ

Arya satakam (1) : मूकपञ्चशति – १ – आर्याशतकम्

Arya satakam (1) : मूकपञ्चशति – १ – आर्याशतकम्

परिचय

यह मौलिक मार्गदर्शिका Arya satakam (1) : मूकपञ्चशति – १ – आर्याशतकम् और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

काञ्चीपुरसीम्नि कामपीठगता ।

काचन विहरति करुणा

काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥

कञ्चन काञ्चीतिलकं [-निलयं]

करधृतकोदण्डबाणसृणिपाशम् ।

कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥

चिन्तितफलपरिपोषण-

-चिन्तामणिरेव काञ्चिनिलया मे ।

चित्तं शिशिरयतु चित्सुखाधारा ॥ ३ ॥

कुटिलकचं कठिनकुचं

कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।

कुरुते विहृतिं काञ्च्यां

कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४ ॥

पञ्चशरशास्त्रबोधन-

-परमाचार्येण दृष्टिपातेन ।

काञ्चीसीम्नि कुमारी

काचन मोहयति कामजेतारम् ॥ ५ ॥

परया काञ्चीपुरया

पर्वतपर्यायपीनकुचभरया ।

परतन्त्रा वयमनया

पङ्कजसब्रह्मचारि लोचनया ॥ ६ ॥

ऐश्वर्यमिन्दुमौले-

-रैकात्म्यप्रकृति काञ्चिमध्यगतम् ।

ऐन्दवकिशोरशेखर-

-मैदम्पर्यं चकास्ति निगमानाम् ॥ ७ ॥

शिथिलितपरमशिवधैर्यमहिमानम् ।

कलये पाटलिमानं

कञ्चन कञ्चुकितभुवनभूमानम् ॥ ८ ॥

आदृतकाञ्चीनिलया-

-माद्यामारूढयौवनाटोपाम् ।

आगम वतंसकलिका-

-मानन्दाद्वैतकन्दलीं वन्दे ॥ ९ ॥

तुङ्गाभिरामकुचभर-

-शृङ्गारितमाश्रयामि काञ्चिगतम् ।

शृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ १० ॥

कामपि कन्दर्पसूतिकापाङ्गीम् ।

परमां कलामुपासे

परशिववामाङ्कपीठिकासीनाम् ॥ ११ ॥

करुणाकोरकितदृष्टिपातानाम् ।

केलीवनं मनो मे

केषाञ्चिद्भवतु चिद्विलासानाम् ॥ १२ ॥

आम्रतरुमूलवसते-

-रादिमपुरुषस्य नयनपीयूषम् ।

आरब्धयौवनोत्सव-

-माम्नायरहस्यमन्तरवलम्बे ॥ १३ ॥

अधिकाञ्चि परमयोगिभि-

-रादिमपरपीठसीम्नि दृश्येन ।

अनुबद्धं मम मानस-

-मरुणिमसर्वस्वसम्प्रदायेन ॥ १४ ॥

अङ्कितशङ्करदेहा-

-मङ्कुरितोरोजकङ्कणाश्लेषैः ।

अधिकाञ्चि नित्यतरुणी-

-मद्राक्षं काञ्चिदद्भुतां बालाम् ॥ १५ ॥

मधुरधनुषा महीधर-

-जनुषा नन्दामि सुरभिबाणजुषा ।

चिद्वपुषा काञ्चिपुरे

केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६ ॥

मधुरस्मितेन रमते

मांसलकुचभारमन्दगमनेन ।

मध्ये काञ्चि मनो मे

मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥

धरणिमयीं तरणिमयीं

पवनमयीं गगनदहनहोतृमयीम् ।

अम्बुमयीमिन्दुमयी-

-मम्बामनुकम्पमादिमामीक्षे ॥ १८ ॥

ध्यानस्तिमितं तपस्यदुपकम्पम् ।

मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥

श्वेता मन्थरहसिते

शाता मध्ये च वाङ्मनोऽतीता ।

शीता लोचनपाते

स्फीता कुचसीम्नि शाश्वती माता ॥ २० ॥

पुरतः कदा नु करवै

पुरवैरिविमर्दपुलकिताङ्गलताम् ।

पुनतीं काञ्चीदेशं

पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥

पुण्या कापि पुरन्ध्री

पुङ्खितकन्दर्पसम्पदा वपुषा ।

पुलिनचरी कम्पायाः

पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥

तरुणारुणसम्प्रदायतनुलेखम् ।

तटसीमनि कम्पाया-

-स्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥

पौष्पशरं सविधसीम्नि कम्पायाः ।

अद्राक्षमात्तयौवन-

-मभ्युदयं कञ्चिदर्धशशिमौलेः ॥ २४ ॥

सरसिजदौर्भाग्यजाग्रदुत्तंसे ।

संविन्मये विलीये

सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥

स्वादिमसमुदायसारकोदण्डम् ।

आदृतकाञ्चीखेलन-

-मादिममारुण्यभेदमाकलये ॥ २६ ॥

उररीकृतकाञ्चिपुरी-

-मुपनिषदरविन्दकुहरमधुधाराम् ।

उन्नम्रस्तनकलशी-

-मुत्सवलहरीमुपास्महे शम्भोः ॥ २७ ॥

एणशिशुदीर्घलोचन-

-मेनःपरिपन्थि सन्ततं भजताम् ।

एकाम्रनाथजीवित-

-मेवम्पददूरमेकमवलम्बे ॥ २८ ॥

स्मयमानमुखं काञ्ची-

-मयमानं कमपि देवताभेदम् ।

दयमानं वीक्ष्य मुहु-

-र्वयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥

कुतुकजुषि काञ्चिदेशे

कुमुदतपोराशिपाकशेखरिते ।

कुरुते जनो मनोऽयं

कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३० ॥

वीक्षेमहि काञ्चिपुरे

विपुलस्तनकलशगरिमपरवशितम् ।

विभ्रमसमवायसारसन्नाहम् ॥ ३१ ॥

कूलचरं कमपि नौमि कम्पायाः ।

कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥

कुर्वाणैः काञ्चिदेशसौहार्दम् ।

कुशलपथं शम्भुसुकृतसम्भारैः ॥ ३३ ॥

अङ्कितकचेन केनचि-

-दन्धङ्करणौषधेन कमलानाम् ।

अन्तःपुरेण शम्भो-

-रलङ्क्रिया कापि कल्प्यते काञ्च्याम् ॥ ३४ ॥

उररीकरोमि सन्तत-

-मूष्मलफालेन लालितं पुंसा ।

उपकम्पमुचितखेलन-

-मुर्वीधरवंशसम्पदुन्मेषम् ॥ ३५ ॥

अङ्कुरितस्तनकोरक-

-मङ्कालङ्कारमेकचूतपतेः ।

आलोकेमहि कोमल-

-मागमसंलापसारयाथार्थ्यम् ॥ ३६ ॥

पुञ्जितकरुणमुदञ्चित-

-शिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।

पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥

लोलहृदयोऽस्मि शम्भो-

-र्लोचनयुगलेन लेह्यमानायाम् ।

लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥

मधुकरसहचरचिकुरै-

-र्मदनागमसमयदीक्षितकटाक्षैः ।

मण्डितकम्पातीरै-

-र्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥

वदनारविन्दवक्षो-

-वामाङ्कतटीवशंवदीभूता ।

पुरुषत्रितये त्रेधा

पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥

बाधाकरीं भवाब्धे-

-राधाराद्यम्बुजेषु विचरन्तीम् ।

बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥

कलयाम्यन्तः शशधर-

-कलयाङ्कितमौलिममलचिद्वलयाम् ।

अलयामागमपीठी-

-निलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥

शर्वादिपरमसाधक-

-गुर्वानीताय कामपीठजुषे ।

सर्वाकृतये शोणिम-

-गर्वाय समर्प्यते हृदयम् ॥ ४३ ॥

समया सान्ध्यमयूखैः

समया बुद्ध्या सदैव शीलितया ।

उमया काञ्चीरतया

न मया लभ्येत किं नु तादात्म्यम् ॥ ४४ ॥

जन्तोस्तव पदपूजन-

-सन्तोषतरङ्गितस्य कामाक्षि ।

बन्धो यदि भवति पुनः

सिन्धोरम्भस्सु बम्भ्रमीति शिला ॥ ४५ ॥

कुण्डलि कुमारि कुटिले

चण्डि चराचरसवित्रि चामुण्डे ।

गुणिनि गुहारिणि गुह्ये

गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ ॥

अभिदाकृतिर्भिदाकृति-

-रचिदाकृतिरपि चिदाकृतिर्मातः ।

अनहन्ता त्वमहन्ता

भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ॥

शिव शिव पश्यन्ति समं

श्रीकामाक्षीकटाक्षिताः पुरुषाः ।

विपिनं भवनममित्रं

मित्रं लोष्ठं च युवतिबिम्बोष्ठम् ॥ ४८ ॥

कामेश्वरि कामपीठमध्यगते ।

कामदुघा भव कमले

कामकले कामकोटि कामाक्षि ॥ ४९ ॥

मध्येहृदयं मध्येनिटिलं

मध्येशिरोऽपि वास्तव्याम् ।

चण्डकरशक्रकार्मुक-

-चन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥

अधिकाञ्चि केलिलोलै-

-रखिलागमयन्त्रतन्त्रमन्त्रमयैः ।

अतिशीतं मम हृदयं

विषमशरद्रोहिजीवनोपायैः ॥ ५१ ॥

नन्दति मम हृदि काचन

मन्दिरयन्ती निरन्तरं काञ्चीम् ।

बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥

सम्पादयितुं भवज्वरचिकित्साम् ।

लिम्पामि मनसि किञ्चन

कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥

अनुमितकुचकाठिन्या-

-मधिवक्षःपीठमङ्गजन्मरिपोः ।

आनन्ददां भजे ता-

-मानङ्गब्रह्मतत्त्वबोधिसिराम् ॥ ५४ ॥

ऐक्षिषि पाशाङ्कुशधर-

-हस्तान्तं विस्मयार्हवृत्तान्तम् ।

अधिकाञ्चि निगमवाचां

सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥

आहितविलासभङ्गी-

-माब्रह्मस्तम्बशिल्पकल्पनया ।

आश्रितकाञ्चीमतुला-

-माद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥

मूकोऽपि जटिलदुर्गति-

-शोकोऽपि स्मरति यः क्षणं भवतीम् ।

एको भवति स जन्तु-

-र्लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥

कञ्चन काञ्चीविहारधौरेयम् ।

पञ्चशरीयं शम्भो-

-र्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥

परिणतवतीं चतुर्धा

पदवीं सुधियां समेत्य सौषुम्नीम् ।

पञ्चाशदर्णकल्पित-

-पदशिल्पां तां नमामि कामाक्षीम् ॥ ५९ ॥

आदिक्षन्मम गुरुरा-

-डादिक्षान्ताक्षरात्मिकां विद्याम् ।

नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥

तुष्यामि हर्षितस्मर-

-शासनया काञ्चिपुरि कृतासनया ।

स्वासनया सकलजग-

-द्भासनया कलितशम्बरासनया ॥ ६१ ॥

प्रेमवती कम्पायां

स्थेमवती यतिमनस्सु भूमवती ।

सामवती नित्यगिरा

सोमवती शिरसि भाति हैमवती ॥ ६२ ॥

कौतुकिना कम्पायां

कौसुमचापेन कीलितेनान्तः ।

कुलदैवतेन महता

कुड्मलमुद्रां धुनोतु नः प्रतिभा ॥ ६३ ॥

केनापि मिलितदेहा

यूना स्वाहासहायतिलकेन ।

संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥

कुसुमशरगर्वसम्प-

-त्कोशगृहं भाति काञ्चिमध्यगतम् । [-देश]

गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥

दरदलितकुसुम्भसम्भृतारुण्यम् ।

कलये नवतारुण्यं

कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥

अधिकाञ्चि वर्धमाना-

-मतुलां करवाणि पारणामक्ष्णोः ।

आनन्दपाकभेदा-

-मरुणिमपरिणामगर्वपल्लविताम् ॥ ६७ ॥

बाणसृणिपाशकार्मुक-

-पाणिममुं कमपि कामपीठगतम् ।

शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥

किं वा फलति ममान्यै-

-र्बिम्बाधरचुम्बिमन्दहासमुखी ।

सम्बाधकरी तमसा-

-मम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥

मञ्चे सदाशिवमये

परशिवमयललितपौष्पपर्यङ्के ।

कामाक्षीनाम किमपि मम भाग्यम् ॥ ७० ॥

रक्ष्योऽस्मि कामपीठी- [लक्ष्यो-]

-लासिकया घनकृपाम्बुराशिकया ।

श्रुतियुवतिकुन्तलीमणि-

-मालिकया तुहिनशैलबालिकया ॥ ७१ ॥

लीये पुरहरजाये

माये तव तरुणपल्लवच्छाये ।

चरणे चन्द्राभरणे

काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥

मूर्तिमति मुक्तिबीजे

मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।

मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥ ७३ ॥

वेदमयीं नादमयीं

बिन्दुमयीं परपदोद्यदिन्दुमयीम् ।

मन्त्रमयीं तन्त्रमयीं

प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४ ॥

पुञ्जितकविलोकसूक्तिरसधाटी ।

मनसि मम कामकोटी

विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥

कुटिलं चटुलं पृथुलं

मृदुलं कचनयनजघनचरणेषु ।

अवलोकितमवलम्बित-

-मधिकम्पातटममेयमस्माभिः ॥ ७६ ॥

प्रत्यङ्मुख्या दृष्ट्या

प्रसाददीपाङ्कुरेण कामाक्ष्याः ।

पश्यामि निस्तुलमहो

पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥

विद्ये विधातृविषये

कात्यायनि कालि कामकोटि कले ।

भारति भैरवि भद्रे

शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥ ७८ ॥

मालिनि महेशचालिनि [-चारिणि]

काञ्चीखेलिनि विपक्षकालिनि ते ।

शूलिनि विद्रुमशालिनि

सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९ ॥

देशिक इति किं शङ्के

तत्तादृक्तव नु तरुणिमोन्मेषः ।

कामाक्षि शूलपाणेः

कामागमसमयतन्त्रदीक्षायाम् ॥ ८० ॥ [-तन्त्रयज्ञ]

वेतण्डकुम्भडम्बर-

-वैतण्डिककुचभरार्तमध्याय ।

कुङ्कुमरुचे नमस्यां

शङ्करनयनामृताय रचयामः ॥ ८१ ॥

अधिकाञ्चितमणिकाञ्चन-

-काञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् ।

अवनतजनानुकम्पा-

-मनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२ ॥

पर्वतराजन्यसुकृतसन्नाहम् ।

परगुरुकृपया वीक्षे

परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥

दग्धमदनस्य शम्भोः

प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।

तव देवि तरुणिमश्री-

-चतुरिमपाको न चक्षमे मातः ॥ ८४ ॥

वसनितपत्रा करादृतखनित्रा ।

विहरति पुलिन्दयोषा

गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥

अङ्के शुकिनी गीते

कौतुकिनी परिसरे च गायकिनी ।

जयसि सविधेऽम्ब भैरव-

-मण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६ ॥

कृतरणसर्गा ससिंहसंसर्गा । [-बहुसर्गा]

कामाक्षि मुदितभर्गा

हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥

समरोद्दण्डा धुतासुरशिखण्डा ।

देवि कलितान्त्रषण्डा

धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८ ॥

दर्वीभरितेन भक्तपूरेण ।

खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥

ताडितरिपुपरिपीडन-

-भयहरणनिपुणहलमुसला ।

क्रीडसि जगति त्वमेव कामाक्षि ॥ ९० ॥

मन्मथहेलाविलासमणिशाला ।

त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥

विमलपटी कमलकुटी

पुस्तकरुद्राक्षशस्तहस्तपुटी ।

कामाक्षि पक्ष्मलाक्षी

कलितविपञ्ची विभासि वैरिञ्ची ॥ ९२ ॥

कुङ्कुमरुचिपिङ्गमसृ-

-क्पङ्किलमुण्डालिमण्डितं मातः ।

जयति तव रूपधेयं

जपपटपुस्तकवराभयाब्जकरम् ॥ ९३ ॥

कालायसकलहशीलकान्तिकलाम् ।

कामाक्षि शीलये त्वां

कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥

मोहितभुवनं मुदा निरीक्षन्ते ।

वदनं तव कुचयुगलं

काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥

जलधिद्विगुणितहुतवह-

-दिशादिनेश्वरकलाश्विनेयदलैः ।

नलिनैर्महेशि गच्छसि

सर्वोत्तरकरकमलदलममलम् ॥ ९६ ॥

सबीजनिर्बीजयोगनिश्रेण्या ।

अपवर्गसौधवलभी-

-मारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥

अन्तरपि बहिरपि त्वं

जन्तुततेरन्तकान्तकृदहन्ते ।

सन्ततमपि तन्तनीषि महिमानम् ॥ ९८ ॥

कलमञ्जुलवागनुमित-

-गलपञ्जरशुकग्रहौत्कण्ठ्यात् । [-गतशुक]

अम्ब रदनाम्बरं ते

बिम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९ ॥

जय जय जगदम्ब शिवे

जय जय कामाक्षि जय जयाद्रिसुते ।

जय जय महेशदयिते

जय जय चिद्गगनकौमुदीधारे ॥ १०० ॥

आर्याशतकं भक्त्या

पठतामार्याकृपाकटाक्षेण ।

निस्सरति वदनकमला-

-द्वाणी पीयूषधोरणी दिव्या ॥ १०१ ॥

इति आर्याशतकम् ॥

मूकपञ्चशति – पादारविन्दशतकम्(२) >>