अष्टकम्
केवलाष्टकम्
परिचय
केवलाष्टकम् को अष्टकम् के रूप में प्रस्तुत किया गया है, जो श्लोकों की एक केंद्रित श्रृंखला से जुड़ी एक भक्ति-स्तुति है। यह मार्गदर्शिका संदर्भ देती है और पाठ या व्याख्या का कोई एक निश्चित ढंग नहीं बताती।
पाठ
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १ ॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २ ॥
स गुरुः स पिता चापि सा माता बान्धवोऽपि सः ।
शिक्षयेच्चेत् सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३ ॥
निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ४ ॥
हरिः सदा वसेत्तत्र यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ५ ॥
अहो दुःखं महादुःखं दुःखाद्दुःखतरं यतः ।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ६ ॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ७ ॥
तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ८ ॥
इति केवलाष्टकम् ।
"देवनागरि" ,