भक्ति पाठ

श्री गुरु पादुका पञ्चकम्

परिचय

यह मौलिक मार्गदर्शिका श्री गुरु पादुका पञ्चकम् और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

अगण्य पुण्योदय भाविताभ्याम् ।

त्रयीशिरोजात निवेदिताभ्यां

नमो नमः श्रीगुरुपादुकाभ्यम् ॥ १ ॥

विपत्तमस्तोम विकर्तनाभ्यां

विशिष्ट सम्पत्ति विवर्धनाभ्याम् ।

नमज्जनाशेष विशेषदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २ ॥

समस्त दुस्तर्क कलङ्क पङ्का-

-पनोदन प्रौढ जलाशयाभ्याम् ।

निराश्रयाभ्यां निखिलाश्रयाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३ ॥

तापत्रयादित्य करार्दितानां

छायामयीभ्यां अतिशीतलाभ्याम् ।

आपन्न संरक्षण दीक्षिताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४ ॥

यतो गिरोऽप्राप्य धिया समस्ता

ह्रिया निवृत्ताः सममेव नित्याः ।

ताभ्यामजेशाच्युत भाविताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५ ॥

ये पादुका पञ्चकमादरेण

पठन्ति नित्यं प्रयताः प्रभाते ।

तेषां गृहे नित्यनिवासशीला

श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः ॥ ६ ॥

इति श्री गुरु पादुका पञ्चकम् ॥

"देवनागरि" ,