भक्ति पाठ

श्री वराह स्तुतिः (वराहपुराणे)

श्री वराह स्तुतिः (वराहपुराणे)

परिचय

यह मौलिक मार्गदर्शिका श्री वराह स्तुतिः (वराहपुराणे) और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

ब्रह्मादय ऊचुः ।

जय देव महापोत्रिन् जय भूमिधराच्युत ।

हिरण्याक्षमहारक्षोविदारणविचक्षण ॥ १ ॥

त्वमनादिरनन्तश्च त्वत्तः परतरो न हि ।

त्वमेव सृष्टिकालेऽपि विधिर्भूत्वा चतुर्मुखः ॥ २ ॥

सृजस्येतज्जगत्सर्वं पासि विष्णुः समन्ततः । [विश्वं]

कालाग्निरुद्ररूपी च कल्पान्ते सर्वजन्तुषु ॥ ३ ॥

अन्तर्यामी भवान् देव सर्वकर्ता त्वमेव हि ।

निष्कृष्टं ब्रह्मणो रूपं न जानन्ति सुरास्तव ॥ ४ ॥

प्रसीद भगवन् विष्णो भूमिं स्थापय पूर्ववत् ।

सर्वप्राणिनिवासार्थमस्तुवन् विबुधव्रजाः ॥ ५ ॥

इति श्रीवरहपुराणे वेङ्कटाचलमाहात्म्ये देवकृत श्री वराह स्तुतिः ।

"देवनागरि" ,