भक्ति पाठ

अद्वैत पञ्चरत्नम् (आत्मा पञ्चकम्)

परिचय

यह मौलिक मार्गदर्शिका अद्वैत पञ्चरत्नम् (आत्मा पञ्चकम्) और उसके नाम में आए ज्योतिषीय भाषा का परिचय देती है। यह शैक्षिक समीक्षा है, कोई व्यक्तिगत पाठ या भविष्यवाणी नहीं।

पाठ

नाऽहं देहो नेन्द्रियाण्यन्तरङ्गो

नाऽहङ्कारः प्राणवर्गो न बुद्धिः ।

दारापत्यक्षेत्रवित्तादिदूरः

साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥

रज्ज्वज्ञानाद्भाति रज्जौ यथाऽहिः

स्वात्माज्ञानादात्मनो जीवभावः ।

आप्तोक्त्याऽहिभ्रान्तिनाशो स रज्जु-

-र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥

आभातीदं विश्वमात्मन्यसत्यं

सत्यज्ञानानन्दरूपे विमोहात् ।

निद्रामोहात् स्वप्नवत् तन्न सत्यं

शुद्धः पूर्णो नित्य एकः शिवोऽहम् ॥ ३ ॥

नाहं जातो न प्रवृद्धो न नष्टो

देहस्योक्ताः प्राकृताः सर्वधर्माः ।

कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-

-कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥

मत्तो नान्यत् किञ्चिदत्रास्ति विश्वं

सत्यं बाह्यं वस्तु मायोपक्लुप्तम् ।

आदर्शान्तर्भासमानस्य तुल्यं

मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥

इति श्रीमच्छङ्कराचार्य कृत अद्वैत पञ्चरत्नम् ॥

"देवनागरि" ,