स्तोत्र
अग्नि स्तोत्रम्
परिचय
अग्नि स्तोत्रम् को स्तोत्र के रूप में प्रस्तुत किया गया है, जो स्तुति का एक भक्ति-पाठ है। यह मौलिक मार्गदर्शिका इसके विषय को समझने और परंपरा का सम्मान करते हुए आगे बढ़ने का स्थान देती है।
पाठ
ओं नमः सर्वभूतानां साधनाय महात्मने ।
एकद्विपञ्चधिष्ण्याय राजसूये षडात्मने ॥ १ ॥
नमः समस्तदेवानां वृत्तिदाय सुवर्चसे ।
शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २ ॥
त्वं मुखं सर्वदेवानां त्वयात्तं भगवन् हविः ।
प्रीणयस्यखिलान् देवांस्त्वत्प्राणाः सर्वदेवताः ॥ ३ ॥
हुतं हविस्त्वय्यनल मेधत्वमुपगच्छति ।
ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४ ॥
तेनाखिलौषधीजन्म भवत्यनिलसारथे ।
औषधीभिरशेषाभिः सुखं जीवन्ति जन्तवः ॥ ५ ॥
वितन्वते नरा यज्ञांस्त्वत्सृष्टास्वोषधीषु च ।
यज्ञैर्देवास्तथा दैत्यास्तद्वद्रक्षांसि पावक ॥ ६ ॥
आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्वस्य योनिस्त्वं वह्ने सर्वमयस्तथा ॥ ७ ॥
देवता दानवा यक्षा दैत्या गन्धर्वराक्षसाः ।
मानुषाः पशवो वृक्षा मृगपक्षिसरीसृपाः ॥ ८ ॥
आप्याय्यन्ते त्वया सर्वे संवर्ध्यन्ते च पावक ।
त्वत्त एवोद्भवं यान्ति त्वय्यन्ते च तथा लयम् ॥ ९ ॥
अपः सृजसि देवत्वं त्वमत्सि पुनरेव ताः ।
पच्यमानास्त्वया ताश्च प्राणिनां पुष्टिकारणम् ॥ १० ॥
देवेषु तेजोरूपेण कान्त्या सिद्धेष्ववस्थितः ।
विषरूपेण नागेषु वायुरूपः पतत्त्रिषु ॥ ११ ॥
मनुजेषु भवान् क्रोधो मोहः पक्षिमृगादिषु ।
अवष्टम्भोऽसि तरुषु काठिन्यं त्वं महीं प्रति ॥ १२ ॥
जले द्रवस्त्वं भगवान् जवरूपी तथाऽनिले ।
व्यापित्वेन तथैवाग्ने नभसि त्वं व्यवस्थितः ॥ १३ ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि पालयन् ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधः पुनः ॥ १४ ॥
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ॥ १५ ॥
त्वामृते हि जगत्सर्वं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा द्विजः पूजां स्वकर्मविहितां गतिम् ॥ १६ ॥
प्रयान्ति हव्यकव्याद्यैः स्वधास्वाहाभ्युदीरणात् ।
परिणामात्मवीर्याणि प्राणिनाममरार्चित ॥ १७ ॥
दहन्ति सर्वभूतानि ततो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ १८ ॥
तवैव वैदिकं कर्म सर्वभूतात्मकं जगत् ।
नमस्तेऽनल पिङ्गाक्ष नमस्तेऽस्तु हुताशन ॥ १९ ॥
पावकाद्य नमस्तेऽस्तु नमस्ते हव्यवाहन ।
त्वमेव सर्वभूतानां पावनाद्विश्वपावनः ॥ २० ॥
त्वमेव भुक्तपीतानां पाचनाद्विश्वपाचकः ।
सस्यानां पाककर्ता त्वं पोष्टा त्वं जगतस्तथा ॥ २१ ॥
त्वमेव मेघस्त्वं वायुस्त्वं बीजं सस्यहेतुकम् ।
पोषाय सर्वभूतानां भूतभव्यभवो ह्यसि ॥ २२ ॥
त्वं ज्योतिः सर्वभूतेषु त्वमादित्यो विभावसुः ।
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ॥ २३ ॥
त्वमहस्त्वं तथा रात्रिरुभे सन्ध्ये तथा भवान् ।
हिरण्यरेतास्त्वं वह्ने हिरण्योद्भवकारणम् ॥ २४ ॥
हिरण्यगर्भश्च भवान् हिरण्यसदृशप्रभः ।
त्वं मुहूर्तं क्षणश्च त्वं त्वं त्रुटिस्त्वं तथा लवः ॥ २५ ॥
कलाकाष्ठानिमेषादिरूपेणासि जगत्प्रभो ।
त्वमेतदखिलं कालः परिणामात्मको भवान् ॥ २६ ॥
या जिह्वा भवतः काली कालनिष्टाकरी प्रभो ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २७ ॥
कराली नाम या जिह्वा महाप्रलयकारणम् ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २८ ॥
मनोजवा च या जिह्वा लघिमागुणलक्षणा ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ २९ ॥
करोति कामं भूतेभ्यो या ते जिह्वा सुलोहिता ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३० ॥
सुधूम्रवर्णा या जिह्वा प्राणिनां रोगदायिका ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३१ ॥
स्फुलिङ्गिनी च या जिह्वा यतः सकलपुद्गलाः ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३२ ॥
याते विश्वसृजा जिह्वा प्राणिनां शर्मदायिनी ।
तया नः पाहि पापेभ्यः ऐहिकाच्च महाभयात् ॥ ३३ ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्म हुताशन ।
त्राहि मां सर्वदोषेभ्यः संसारादुद्धरेह माम् ॥ ३४ ॥
प्रसीद वह्ने सप्तार्चिः कृशानो हव्यवाहन ।
अग्नि पावक शुक्रादि नामाष्टाभिरुदीरितः ॥ ३५ ॥
अग्नेऽग्रे सर्वभूतानां समुत्पत्तिर्विभावसो ।
प्रसीद हव्यवाहाख्य अभिष्टुत मयाव्यय ॥ ३६ ॥
त्वमक्षयो वह्निरचिन्त्यरूपः
समृद्धिमन् दुष्प्रसहोऽतितीव्रः ।
तवाव्ययं भीममशेषलोक-
-संवर्धकं हन्त्यथवातिवीर्यम् ॥ ३७ ॥
त्वमुत्तमं तत्त्वमशेषसत्त्व-
-हृत्पुण्डरीकस्थमनन्तमीड्यम् ।
त्वया ततं विश्वमिदं चराचरं
हुताशनैको बहुधा त्वमत्र ॥ ३८ ॥
त्वमक्षयः सगिरिवना वसुन्धरा
नभः ससोमार्कमहर्दिवाखिलम् ।
महोदधेर्जठरगतश्च वाडवो
भवान्विभुः पिबति पयांसि पावक ॥ ३९ ॥
हुताशनस्त्वमिति सदाभिपूज्यसे
महाक्रतौ नियमपरैर्महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे
वषट्कृतान्यपि च हवीषि भूतये ॥ ४० ॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं
वेदाङ्गेष्वथ सकलेषु गीयसे त्वम् ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा
वेदाङ्गान्यधिगमयन्ति सर्वकाले ॥ ४१ ॥
त्वं ब्रह्मा यजनपरस्तथैव विष्णु-
-र्भूतेशः सुरपतिरर्यमा जलेशः ।
सूर्येन्दू सकलसुरासुराश्च हव्यैः
सन्तोष्याऽभिमतफलान्यथाप्नुवन्ति ॥ ४२ ॥
अर्चिभिः परममहोपघातदुष्टं
संस्पृष्टं तव शुचि जायते समस्तम् ।
स्नानानां परममतीव भस्मना सत्
सन्ध्यायां मुनिभिरतीव सेव्यसे तत् ॥ ४३ ॥
तत्कृत्वा त्रिदिवमवाप्नुवन्ति लोकाः ।
सद्भक्त्या सुखनियताः समूहगतिम् ॥ ४४ ॥
प्रसीद वह्ने शुचिनामधेय
प्रसीद वायो विमलातिदीप्ते ।
प्रसीद मे पावक वैद्युताभ
प्रसीद हव्याशन पाहि मां त्वम् ॥ ४५ ॥
यत्ते वह्ने शिवं रूपं ये च ते सप्त हेतयः ।
तैः पाहि न स्तुतो देव पिता पुत्रमिवात्मजम् ॥ ४६ ॥
इति श्रीमार्कण्डेयपुराणे भौत्यमन्वन्तरे षण्णवतितमोऽध्याये शान्ति प्रोक्त अग्नि स्तोत्रम् ॥