Stotra
Sri Vishnu Dwadasa Nama Panjara Stotram
About
Sri Vishnu Dwadasa Nama Panjara Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ १ ॥
इन्दीवरदलश्यामो माधवोर्ध्वं गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः ।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३ ॥
त्रिविक्रमः खड्गपाणिर्निरृत्यां ज्वलनप्रभः ।
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् ॥ ४ ॥
ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः ।
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः ।
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ॥ ७ ॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम् ।
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ ८ ॥
भयं नास्ति कदाचन ओं नम इति ॥
इति श्री विष्णु द्वादशनाम पञ्जर स्तोत्रम् ॥
"देवनागरि" ,