Devotional reading

Sri Vasudeva Dwadasha Akshara Stuti

About

This original guide introduces Sri Vasudeva Dwadasha Akshara Stuti and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.

Hymn text

ओमिति ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।

कर्मनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥

न गतिर्विद्यते चान्या त्वमेव शरणं मम ।

मायापङ्केनलिप्तोऽस्मि त्राहि मां मधुसूदन ॥ २ ॥

मोहितो मोहजालेन पुत्रदारगृहादिषु ।

तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥

भक्तिहीनं तु दीनं च दुःखशोकसमन्वितौ ।

अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥ ४ ॥

गतागतपरिश्रान्तो दूरमध्वनि कर्मणाम् ।

संसारभयभीतोऽस्मि त्राहि मां मधुसूदन ॥ ५ ॥

वसितो मातृगर्भेषु पीडितोऽहं जनार्दन ।

गर्भवासक्षयकर त्राहि मां मधुसूदन ॥ ६ ॥

तेन देव प्रपन्नोऽस्मि सत्वाश्रयपरायण ।

जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥ ७ ॥

वाचा तूपकृतं पापं कर्मणा यदुपार्जितम् ।

मया देव दुराचारं त्राहि मां मधुसूदन ॥ ८ ॥

सुकृतं न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।

तेनाहं परितप्तोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥

देहान्तरसहस्रेषु कुयोनिः सेविता मया ।

तिर्यक्त्वं मानुषत्वं च त्राहि मां मधुसूदन ॥ १० ॥

वासुदेव हृषीकेश वैकुण्ठ पुरुषोतम ।

सृष्टिसंहारकरण त्राहि मां मधुसूदन ॥ ११ ॥

यत्राहमागमिष्यामि नारी वा पुरुषोऽपि वा ।

तत्र तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥ १२ ॥

द्वादशार्णवस्तुतिमिमां यः पठेच्छृणुयादपि ।

स याति परमं स्थानं यत्र योगेश्वरो हरिः ॥ १३ ॥

इति श्रीवेदव्यास कृत द्वादशार्णव स्तुतिः ॥