Stotra

Sri Shankaracharya Pancharatna Stotram

Sri Shankaracharya Pancharatna Stotram

About

Sri Shankaracharya Pancharatna Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.

Hymn text

शिवांशं त्रयीमार्गगामिप्रियं तं

कलिघ्नं तपोराशियुक्तं भवन्तम् ।

परं पुण्यशीलं पवित्रीकृताङ्गं

भजे शङ्कराचार्यमाचार्यरत्नम् ॥ १ ॥

करे दण्डमेकं दधानं विशुद्धं

सुरैर्ब्रह्मविष्ण्वादिभिर्ध्यानगम्यम् ।

सुसूक्ष्मं वरं वेदतत्त्वज्ञमीशं

भजे शङ्कराचार्यमाचार्यरत्नम् ॥ २ ॥

रवीन्द्वक्षिणं सर्वशास्त्रप्रवीणं

समं निर्मलाङ्गं महावाक्यविज्ञम् ।

गुरुं तोटकाचार्यसम्पूजितं तं

भजे शङ्कराचार्यमाचार्यरत्नम् ॥ ३ ॥

चरं सच्चरित्रं सदा भद्रचित्तं

जगत्पूज्यपादाब्जमज्ञाननाशम् ।

जगन्मुक्तिदातारमेकं विशालं

भजे शङ्कराचार्यमाचार्यरत्नम् ॥ ४ ॥

यतिश्रेष्ठमेकाग्रचित्तं महान्तं

सुशान्तं गुणातीतमाकाशवासम् ।

निरातङ्कमादित्यभासं नितान्तं

भजे शङ्कराचार्यमाचार्यरत्नम् ॥ ५ ॥

पठेत् पञ्चरत्नं सभक्तिर्हि भक्तः

सदा शङ्कराचार्यरत्नस्य नित्यम् ।

लभेत प्रपूर्णं सुखं जीवनं सः

कृपां साधुविद्यां धनं सिद्धिकीर्ती ॥ ६ ॥

इति श्री शङ्कराचार्य पञ्चरत्न स्तोत्रम् ॥

"देवनागरि" ,