Stotra
Sri Shankaracharya Bhujanga Prayata Stotram
About
Sri Shankaracharya Bhujanga Prayata Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शङ्कराय ॥ १ ॥
चिदानन्दरूपाय चिन्मुद्रिकोद्य-
-त्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमाङ्गैः
श्रितानन्ददात्रे नमः शङ्कराय ॥ २ ॥
जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः ।
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ॥ ३ ॥
नखेन्दुप्रभाधूतनम्रालिहार्दा-
-न्धकारव्रजायाब्जमन्दस्मिताय ।
प्रशान्ताय कुर्मो नमः शङ्कराय ॥ ४ ॥
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्मक्षयाभ्यां
विहीनाय कुर्मो नमः शङ्कराय ॥ ५ ॥
प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्यामपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥ ६ ॥
नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥ ७ ॥
प्रभाधूतचन्द्रायुतायाखिलेष्ट-
-प्रदायानतानां समूहाय शीघ्रम् ।
प्रतीपाय नम्रौघदुःखाघपङ्क्ते-
-र्मुदा सर्वदा स्यान्नमः शङ्कराय ॥ ८ ॥
विनिष्कासितानीश तत्त्वावबोधा-
-न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥ ९ ॥
मतेर्वेदशीर्षाध्वसम्प्रापकाया-
-नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय कुर्मो नमः शङ्कराय ॥ १० ॥
सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे ।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शङ्कराय ॥ ११ ॥
भवाम्भोधिमग्नान् जनान् दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशां भो
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥ १२ ॥
इति श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती महास्वामिभिः श्रीकालटिक्षेत्रे विरचितं श्री शङ्कराचार्य भुजङ्गप्रयात स्तोत्रम् ॥