Stotra
Sri Raghavendra Runa Mochaka Stotram
About
Sri Raghavendra Runa Mochaka Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रितजनदुरितघ्नं भक्तवर्गस्य निघ्नं
सुरतरुसमरूपं सर्वसाम्राज्यभूपम् ।
भजकजनशरण्यं नौमि कारुण्यपूर्णं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १ ॥
रचितभयविनाश श्रीद सम्पत्समृद्ध
प्रियतमपर दीनाऽनाथबन्धो नमस्ते ।
निटिलगतकुवर्णश्रेणिवैय्यर्थकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ २ ॥
घनतरहरिसेवोत्कर्षलब्धाष्टसिद्धे
वितरणगुणलीलाधिक्कृत स्वर्द्रुकीर्ते ।
निखिलगुणनिधानश्लाघ्यसौभाग्यमूर्ते
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ३ ॥
विदितविविधवेदव्यासवाक्यार्थमध्व-
-प्रकटितमतभावव्याकृतिप्रोपकर्तः ।
कृतकलिकृतदोषोच्चाटन क्षेमकारिन्
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ४ ॥
द्रविणरहितलोकास्त्वामुपाश्रित्य सर्वे
कलितसकलकामाः सन्ति सौख्येन भूमौ ।
इदमहमपि मत्वा संसृतस्त्वामुदारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ५ ॥
यतिवर बहुभक्तत्राणनात् पाटवं ते
किमु गलितमुताऽहं नास्मि किं रक्षणार्हः ।
द्वयमपि न हि युक्तं सर्वतन्त्रस्वतन्त्रे
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ६ ॥
नरमितरमुदारं सेवमानोऽपि भूयः
सुखमहमिह नापं पूर्वकर्मानुरोधात् ।
तदपि झटति धूत्वा रक्षसीत्याश्रये त्वां
कुरु ऋण परिहारं तात मे राघवेन्द्र ॥ ७ ॥
मम तु भवति मित्रे बान्धवे मातरीष्टे
पितरि सति वदान्ये सद्गुरौ वा समर्थे ।
व्यसनमनुभवामि त्वत्सुतः साम्प्रतं किं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ८ ॥
इति गुरुवर पुत्रो नाम कृष्णावधूतः
चकर ऋणविनाशस्तोत्रमेतद्गुणानाम् ।
पठति शतदिनं यो नित्यमेतत् त्रिवारं
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ९ ॥
ऋणमोचनकं नाम स्तोत्रं प्रत्यक्षसिद्धिदम् ।
कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १० ॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे ऋणमोचनं नाम द्वादशपटलः ॥