Stotra
Sri Raghavendra Raksha Stotram
About
Sri Raghavendra Raksha Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रीराघवेन्द्रनाम्नैव स्वाङ्गन्यासं तु कारयेत् ।
तेनैव धार्ढ्यं देहस्य भवत्येव न संशयः ॥ १ ॥
राघवेन्द्रः शिरः पातु फालं पातु यतीश्वरः ।
श्रोत्रे पातु सुरश्रेष्ठो मुखं पातु महायशाः ॥ २ ॥
नेत्रे पातु गुरुश्रेष्ठो घ्राणं पातु महामनाः ।
गण्डे पातु गुणाम्भोधिः कपोले कामितप्रदः ॥ ३ ॥
ऊर्ध्वोष्ठं विबुधः पातु ह्यधरोष्ठं हरिप्रियः ।
दन्तालिं देशिकः पातु जिह्वां पातु जगद्गुरुः ॥ ४ ॥
चुबुकं चतुरः पातु कण्ठं पातु यतीश्वरः ।
स्कन्धे पातु सुरश्रेष्ठो भुजौ च सुरवन्दितः ॥ ५ ॥
बाहू पातु महाप्राज्ञो हस्तौ सर्वज्ञसत्तमः ।
हृदयं हरिभक्तस्तु कक्षौ पातु विचक्षणः ॥ ६ ॥
कुक्षिं च पातु प्रह्लादो नाभिं पातु नरांशकः ।
कटिं सुधीन्द्रतनयो जघनं व्यासमूर्तिमान् ॥ ७ ॥
पृष्ठं कृष्णप्रियः पातु गुह्यं गुरुवरः सदा ।
मेढ्रं पातु महाधीरो वृषणौ धीमतां वरः ॥ ८ ॥
ऊरू पातु महोदारः जानुनी जयतां वरः ।
जङ्घे जितेन्द्रियः पातु गुल्फौ कारुण्यसागरः ॥ ९ ॥
पादौ पापहरः पातु अङ्गुली पातु भूतिदः ।
सर्वाङ्गं सार्वभौमस्तु पायान्मां पापिनां सदा ॥ १० ॥
एवमेतद्गुरोर्नाम्ना सर्वाङ्गं रक्षयेत्सुधीः ।
तस्य रोगा विनश्यन्ति सञ्चिता अपि नित्यशः ॥ ११ ॥
आगामिनो रोगसङ्घाः नैवायान्ति कदाचन ।
नश्येयुः सर्वपापानि सर्वेष्टानि भवन्ति च ॥ १२ ॥
इति श्रीराघवेन्द्रार्यपदपङ्कजसेविना ।
स्वामिना रचितं रक्षास्तोत्रं सर्वार्थसिद्धिदम् ॥ १३ ॥
इति श्रीगुरुजगन्नाथदासार्य विरचितं श्री राघवेन्द्र रक्षा स्तोत्रम् ॥