Devotional reading
Sri Raghavendra Raksha Kavacham
About
This original guide introduces Sri Raghavendra Raksha Kavacham and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.
Hymn text
अथ श्रीराघवेन्द्रार्यरक्षाकवचमद्भुतम् ।
वक्ष्यामि दंशितो येन क्षेमवान् विजयी भवेत् ॥ १ ॥
गुरुराजप्रेमपुत्रः तत्प्रसादपुरस्कृतः ।
कृष्णावधूतनामाऽहं तस्य सन्निधिकारकम् ॥ २ ॥
छन्दः त्रिष्टुप् समाख्यातं देवता गुरुराट् स्मृतः ।
मन्त्रन्यासः प्रकर्तव्यो ध्यानम् वक्ष्यामि सद्गुरोः ॥ ३ ॥
करधृतलगुढं धृताक्षमालं
दरविवृतेक्षणमम्बुजासनस्थम् ।
दरचलदधरं गुरुं दधानं
वरमभयप्रणतेष्टदं स्मरामि ॥ ४ ॥
ओम् । पूर्वेऽत्र मां रक्षतु राघवेन्द्रो
मां दक्षिणेऽव्याद्घनपापहन्ता ।
अव्यात् प्रतीच्यामभयप्रदाता
पातूत्तरस्यां दिशि शान्तिकर्ता ॥ ५ ॥
आग्नेयभागेऽवतु दिव्यतेजाः
नैरृत्यभागेऽवतु दुष्टहन्ता ।
वायुव्यभागेऽवतु वज्रकायो
मामीशभागेऽवतु सिद्धिदाता ॥ ६ ॥
पायाच्छिखां मे श्रितरामपादः
पायाच्छिरो मे शशिशीतवृत्तिः ।
फालं ममाव्याद्दुरदृष्टहर्ता
भ्रुवौ ममाव्याद्भवतापहर्ता ॥ ७ ॥
कूर्चं ममाव्यात् कुलशीलशाली
नेत्रे ममाव्यान्नयनप्रदाता ।
कर्णौ ममाव्याद्बधिरत्वहारी
गण्डौ ममाव्याद्गरदोषहारी ॥ ८ ॥
ओष्ठाधरौ मेऽवतु कष्टहारी
नासां सदा मेऽवतु नादकारी ।
जिह्वां सदा रक्षतु वाक्प्रदाता
दन्तान् सदा रक्षतु भक्ष्यदाता ॥ ९ ॥
अव्यात् सदा मे चिबुकं यतीशः ।
पायात् सदा मे वदनं व्रतीशः ।
कण्ठं नृकण्ठीरवभक्तवर्यः
स्कन्धौ ममाव्याद्धृतपुष्पमालः ॥ १० ॥
भुजौ ममाव्यादिह बाहुदाता
करौ ममाव्याद्वरदानशूरः ।
हस्ताङ्गुलीन् मे मनुजापकोऽव्या-
-द्वक्षो ममाव्याद्घनसंशयच्छित् ॥ ११ ॥
कुक्षिं ममाव्यादयमामयघ्नः
पार्श्वे ममाव्याद्भवभीतिहर्ता ।
साहाय्यकर्ता मम पातु पृष्ठं
कटिं सदा मे कनकाम्बरोऽव्यात् ॥ १२ ॥
मेहामयघ्नोऽवतु मे तु गुह्यं
ऊरू सदा मेऽवतु वेगशीलः ।
मौनव्रती मेऽवतु जानुनी च
जङ्घे ममाव्याज्जवनत्वदायी ॥ १३ ॥
गुल्फौ ममाव्याद्गुणवर्णनीयः
पादौ ममाव्यात्परपीडितारिः ।
यद्यन्ममाङ्गं न मयोक्तमत्र
तत्तत्समस्तं च दयालुरव्यात् ॥ १४ ॥
पितॄंश्च पत्नींश्च सुतांश्च बन्धून्
पौत्रादिकान्मे सुतवत्सलोऽव्यात् ।
व्याघ्राऽहि भल्लूक वराह दन्ती
लुलाय सिंहांश्च सृगाल चोरान् ॥ १५ ॥
हत्वा च दुष्टान् कृमिवृश्चिकाण्ड-
-जातान् ममाव्याद्गुरुराजदण्डः ।
भिन्द्यात्पिशाचासुरयक्षरक्षो-
-भूतग्रहादीन् गुरुपादरेणुः ॥ १६ ॥
अग्न्यम्बुशैलाशनिराजशत्रु-
-विषादितोऽव्याद्गुरुपादतीर्थम् ।
कुष्ठज्वरार्शःक्षयमुख्यरोगान्
विनाशयित्वाऽवतु मृत्तिका सा ॥ १७ ॥
धान्यं धनं भूषणवस्त्रगेहं
धैर्यं ममाव्याद्गुरुराघवेन्द्रः ।
मित्रादिकप्रेमकवित्वविद्याः ॥ १८ ॥
सर्वानुकूल्यं सकलार्थसिद्धिं
दधातु मे सिद्धगणाग्रगण्यः ।
ज्ञानं सदाचारमुदारभावं
चित्तेन्द्रियादीनि च पातु सूज्ञः ॥ १९ ॥
धर्मानुकूल्यं कृतपुण्यकर्म
विवेकमित्यादि पिता ममाव्यात् ।
सङ्कल्पसिद्धिं मम वाक्यसिद्धिं
जयं च सर्वत्र ददात्वभीष्टः ॥ २० ॥
पुरश्च मेऽव्याद्वरदानकारी
पश्चाश्च मेऽव्याद्बलदानकारी ।
ऊर्ध्वं ममाऽव्यात्परितापहारी
अधश्च मेऽव्यात् स्थिवासकारी ॥ २१ ॥
दिवा प्रभाते निशि च प्रदोषे
मध्यन्दिनेऽव्यान्मम जागरूकः ।
सर्वेषु कार्येषु च सर्वदा मां
पायाद्गुरुर्मत्कृतसन्निधानः ॥ २२ ॥
इदं श्रीराघवेन्द्रार्यकवचं रक्षकं परम् ।
त्रिकालं वा द्विकालं वा सकृद्वा पठितां दिनम् ॥ २३ ॥
कुष्ठादि रोगशमनं सर्वपीडाहरं शुभम् ।
कविताशास्त्रविज्ञानप्रदं वादिजयप्रदम् ॥ २४ ॥
सर्वसाध्वसरक्षार्थं ब्रह्मास्त्रसदृशं कलौ ॥ २५ ॥
वन्दे श्रीगुरुराजमुग्रतपसं सर्वारिदर्पापहं
देवेन्द्राभसमृद्धसम्पदममुं भक्तिप्रियं सद्गुरुम् ।
भक्तत्राणनबद्धकङ्कणमसद्भाधाहरं स्वर्गवी-
-स्वारत्नस्वरगात्युदारहृदयं तं रिष्टतातिं प्रभुम् ॥ २६ ॥
इति श्रीकृष्णावधूतपण्डित कृतौ श्रीराघवेन्द्रतन्त्रे श्री राघवेन्द्र रक्षा कवचं नाम पञ्चमपटलः ॥