Stotra
Sri Raghavendra Pratikoola Swanukoolikarana Stotram
About
Sri Raghavendra Pratikoola Swanukoolikarana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रीभूपे कूपे सुखवारां कृतचित्तं
चित्ते त्वां ध्यायामि च भूयोऽहममत्तः ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ १ ॥
राष्ट्रे राष्ट्रे ख्यातयशस्तोम विभासिन्
वासिन् ध्यातुश्चेतसि दातः करुणावान् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ २ ॥
घोरे संसारे पतितोऽहं तव पुत्रः
कुत्रावेयं त्वामपहाय प्रभुमिष्टम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ३ ॥
वेदाहं नो सद्गतिहेतुं तव पोतः
पूतं पादादन्यदृते संसृतिवार्धेः ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ४ ॥
द्रावं द्रावं नश्यति कष्टं तव दृष्ट्यां
कष्ट्यापं त्वातः कुरु तुष्टं वृषपुष्पम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ५ ॥
यत्यत्युच्च त्वद्परेणुं गतमानौ
दार्यं धार्यं मूर्धनि वार्यन्नदमीडे ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ६ ॥
नाना नाना दैवकदम्बैः सविलम्बै-
-र्लम्बे स्मालम्बं सुखदं त्वामविलम्बम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारपत्याद्यं सकलं कुर्वनुकूलम् ॥ ६ ॥
मन्त्रं ते मन्त्रालयधामन् भुवि जप्तुः
पातुः पादाम्भो लघु नश्यत्यतिदुःखम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ७ ॥
चक्रेऽष्टश्लोकीमवधूतः कविकृष्ण-
-स्तत्पाठेन त्वं भव तुष्टो हर कष्टम् ।
स्वामिन् भूमन् भो गुरुराज प्रतिकूलं
दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ ९ ॥
इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले प्रतिकूल-स्वानुकूलीकरणस्तोत्रं नाम सप्तमोऽध्यायः ॥