Stotra

Sri Raghavendra Karavalambana Stotram

About

Sri Raghavendra Karavalambana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.

Hymn text

श्रीधराङ्घ्रि सरोरुहे दिश दासतामनुदासतां

तद्वधूपवनादिकेष्वनुदासतामनुदासताम् ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ १ ॥

रामया हृतहृत्त्वहं न लभे सुखं न लभे सुखं

किं करोमि हताशयश्चरितास्म्यहं मृगतृष्णया ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ २ ॥

घातुकं मम पूर्वकर्म विभाधते प्रविबाधते

तेन संसृतिसागरे भ्रमतो मम भ्रमतो मम ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ३ ॥

वेद्मि किञ्चन साधनं न हि सद्गतेर्मम सद्गते

मार्गमाशु विमुक्तिदं प्रतिदर्शय प्रतिदर्शय ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ४ ॥

द्रावयाऽशु ममापदं नियतायतामनयागतां

अन्यथा तव भक्तदुःखहरप्रथा तु भवेद्वृथा ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ५ ॥

यामि कं त्वदृते पितः शरणं वदाशरणः प्रभो

पुत्रवत्सलता पितुस्तव नास्ति किं तव नास्ति किम् ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ६ ॥

मानयस्व सुतस्य मे बहु भाषणं करुणेषणं

वक्रवागपि बालकस्य मुदं पितुः कुरुते न किम् ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ७ ॥

कृष्णनामयुतावधूतकृतं तव स्तवमादरात्

यः पठेदिह तस्य सत्सुखमादिशाभयमादिश ।

राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां

राघवेन्द्र कराश्रयं दिश रक्ष तं कुरु चाक्षतम् ॥ ८ ॥

इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले करावलम्बन स्तोत्रं नाम चतुर्थोऽध्यायः ॥

"देवनागरि" ,