Stotra
Sri Raghavendra Hrudroga Harana Stotram
About
Sri Raghavendra Hrudroga Harana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रीरामे गुणधामनि विनिहित चित्तप्रभो दयापूर्ण ।
गुरुराडुदारभाव त्वं हर हृद्रोगमतितूर्णम् ॥ १ ॥
राजीवाक्षीकाङ्क्षापूरण सन्तापसन्तताभ्यस्तम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ २ ॥
घोराशाभिधभूताविष्टं भृशमस्थिरं सदा भ्रमति ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ३ ॥
वेदपुराणसुमार्गानुज्झित्वा दुष्टनीचमार्गचरम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ४ ॥
द्रागिष्टार्थदमीशमलब्ध्वान्यानुपास्य बहुखिन्नम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ५ ॥
यत्नात् कापुरुषादिक सेवाविधिनापि नाप काम्यार्थम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ६ ॥
नर्तेत्वद्भुवि कञ्चन जानीतेऽन्यं कलौ सुरद्रुसमम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ७ ॥
महिमानं तव भूयः श्रुत्वा त्वत्पादपङ्कजं प्राप्तम् ।
चेतो मे गुरुराज त्वं हर हृद्रोगमतितूर्णम् ॥ ८ ॥
कृष्णावधूत रचितं पथ्योपेतं मनोरोगहरम् ।
स्तोत्रं मे पठतां त्वं संहर हृद्रोगमतितूर्णम् ॥ ९ ॥
इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले हृद्रोगहरणस्तोत्रं नाम षष्ठोऽध्यायः ॥