Devotional reading
Sri Raghavendra Hrudayam
About
This original guide introduces Sri Raghavendra Hrudayam and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.
Hymn text
नारायणं महालक्ष्मीं भार्गवं रघुनायकम् ।
कृष्णं व्यासं हनूमन्तं भीमं मध्वं गुरूनपि ॥ १ ॥
व्यासं नत्वाऽवधूतोऽहं वक्ष्यामि हृदयं गुरोः ।
नानाछन्दः सुसर्वार्थदायकं पापनाशकम् ॥ २ ॥
ध्यायामि श्रीराघवेन्द्रार्यरूपं
भूलोकेऽस्मिन् सर्वसौभाग्यहेतुम् ।
भक्तत्राणायैव बद्धादरं मे
चित्ते नित्यं संवसत्विष्टदैवम् ॥ ३ ॥
पुरा प्रह्लादनामाऽभूत् हिरण्यकशिपोः सुतः ।
यदर्थं श्रीमहाविष्णुर्नृकण्ठीरवतां गतः ॥ ४ ॥
संहतः प्रहतश्चेति तस्यास्तां परिचारिणौ ।
त्रेतायां रामसेवार्थं विभीषणतयाऽजनि ॥ ५ ॥
तत्रापि चारौ तौ जातौ सन्धिकश्च प्रसन्धिकः ।
द्वापरेऽपि समं ताभ्यां समाविष्टश्च वायुना ॥ ६ ॥
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत्पतिः ॥ ७ ॥
कलौ गोपालकृष्णार्चा पूजायै व्यासमस्करी ।
भूत्वा निर्जित्य दुर्वादान् मध्वशास्त्रं प्रकाशयत् ॥ ८ ॥
ब्रह्ममानसपूजायामाविर्भूतां हृदम्बुजात् ।
श्रीरामार्यं च सीतार्चां प्रपूजयिषुरेषकः ॥ ९ ॥
श्रीराघवेन्द्रतीर्थाख्योऽवतीर्य यतिरूपतः ।
विवृत्या मध्वशास्त्रस्य लोकोपकृतिमातनोत् ॥ १० ॥
अप्पण्णाचार्य कृष्णाख्यौ तत्रापि द्विजरूपतः ।
संहतप्रहतौ जातौ शिष्यौ तस्य प्रियौ सदा ॥ ११ ॥
पुनश्च सत्यसन्धाख्यो मठान्तरनिवासिनीम् ।
अनर्चितां च सीतायाः प्रतिमामार्चयद्यतिः ॥ १२ ॥
विष्वक्सेनाहीशपुत्रावताराः षडिमे मताः ।
तस्य श्रीराघवेन्द्रगुरोः काम्यार्थदायिनः ॥ १३ ॥
अप्पण्णाचार्यरचितं स्तोत्रं सर्वेष्टसाधकम् ।
एतद्विना गुरोः पूजा स्तोत्रं चाष्टाक्षरी जपः ॥ १४ ॥
सेवा च व्यर्थतामेति न प्रसादो गुरोर्भवेत् ।
आदौ सकृद्वा तत्पाठादन्यत्सिद्ध्यति शीघ्रतः ॥ १५ ॥
सर्वेष्वपि च शिष्येषु अप्पण्णाचार्य एव सः ।
गुरोरतिप्रियो यस्मात् स्तुतिस्तेन समादृताः ॥ १६ ॥
अप्पण्णाचार्य सम्प्रोक्तं मूलं माला च वर्म च ।
यथायोगं यथाकालं तत्तदुक्तार्थसिद्धिदम् ॥ १७ ॥
श्रीराघवेन्द्रयतिनं ईप्सितार्थप्रदायिनम् ।
उपासते यथा भक्त्या तथा फलमवाप्नुयात् ॥ १८ ॥
सेवया परमहंसानामैहिकाऽमुष्मिकं भवेत् ।
ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च विन्दति ॥ १९ ॥
इत्यादि वाक्यात् परमहंसाधीशमिमं गुरुम् ।
सेवेत सर्वथा मर्त्यः स्वरूपोद्धारकारणम् ।
स्तुवीत बहुभिः स्तोत्रैः प्रार्थयीत यथेप्सितम् ॥ २० ॥
श्रीराघवेन्द्रं श्रितपारिजातं
सीतारघूत्तंसपदाब्जचित्तम् ।
काषायवस्त्रं कमनीयवेषं
काम्यार्थदातारमतीतदोषम् ॥ २१ ॥
जयतु जयतु राजा राजराजादिपूज्यो
जयतु जयतु रम्ये रञ्जितानेकलोकः ।
जयतु जयतु भोगी भक्तभाग्यप्रदाता
जयतु जयतु भूमा भूरि भूरि प्रदाता ॥ २२ ॥
जयतु जयतु बन्धुर्बन्धनच्छेदकारी
जयतु जयतु मित्रं मीलितानेकवैरी ।
जयतु जयतु माता मान्यमान्यो महात्मा
जयतु जयतु तातस्तापहर्ता नितान्तम् ॥ २३ ॥
गुरो तव पदाम्बुजं भवपयोधिनौकायितं
महाजनपरम्पराभजनगोचरं भूतिदम् ।
भजामि भजतां नृणां बहुगदौघविध्वंसकं
सुखप्रदमहर्निशं सुखसुखेन संसिद्धिदम् ॥ २४ ॥
मनो वसतु पादयोर्भवतु मे वचस्ते स्तुतौ
त्वदीक्षणविधौ दृशा भवतु तेऽर्चनायां करौ ।
श्रुती तव गुणश्रुतौ भवतु मस्तकं ते नतौ
प्रदक्षिणविधौ पदे गुरुवराश्रये ते पदे ॥ २५ ॥
वित्ताशया जगति वित्तादि सम्पदतिमत्तानिमानुपचरन्
आत्ताधिरस्म्यहमनुत्तानलुण्ठदपचित्ताविवेकमतिमान् ।
मत्ताङ्गना कठिनवृत्तानुबन्धिकुचदत्तादरश्च तमिमं
श्रीराघवेन्द्र दययाऽऽरादुपैहि मम धीराशु यच्छ सुमतिम् ॥ २६ ॥
तव सेवारतान् कांश्चित् भक्तान् प्रेषय मां प्रति ।
तेषां मनोरथं तात मया पुत्रेण पूरय ॥ २७ ॥
अथवा करुणासिन्धो मयि सन्निहितः सदा ।
पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ २८ ॥
येन केनाप्युपायेन दूने दुर्यशसा भुवि ।
माहात्म्यं मयि विन्यस्य कुरु मां लोकपूजितम् ॥ २९ ॥
युक्तायुक्तमजानानो याचे त्वां बालवद्गुरो ।
दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ३० ॥
सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने ।
उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ३१ ॥
आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् ।
तेन विघ्नाः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ ३२ ॥
इति श्रीगुरुराजस्य हृदयं तदनुज्ञया ।
कृष्णावधूत कथितं गुरुवाक्यानुसारतः ।
सम्पाद्य सिद्धसङ्कल्पे भक्तिं मुक्तिं च विन्दति ॥ ३३ ॥
पठनाच्छ्रवणाद्वापि गुरुसान्निध्यकारणम् ।
किमत्रबहुना सर्वं गुरुराजप्रसादतः ॥ ३४ ॥
मोदं मे दिशतु गुरुः स राघवेन्द्रो
दीनानां शरणमुदारचित्तवृत्तिः ।
भक्तानां हरिगुरुरूपदर्शकस्त्वं
सुप्रेम्णा मयि मम तात सन्निधेहि ॥ ३५ ॥
इति श्रीकृष्णावधूतपण्डित कृतौ श्रीराघवेन्द्रतन्त्रे श्री राघवेन्द्र हृदयं नाम तृतीयः पटलः ॥