Stotra

Sri Raghavendra Guru Karuna Sampadana Stotram

About

Sri Raghavendra Guru Karuna Sampadana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.

Hymn text

श्रीप्राप्त्यै प्रचुरतृषापिशाचकः स-

-न्नाजन्मप्रकटिततीर्थकाकभावः ।

दारिद्र्यप्रियसुहृदं तथापि दात-

-र्मां पात्रे समितमुपेक्षसे क्व यामि ॥ १ ॥

राकेन्दुप्रतिममुखीमवेक्ष्य चित्तं

लोलन्तीं शुनककुधीस्तदानुकूल्ये ।

शम्युर्नाभवमनया तथापि भूय-

-श्चूडालः स्वजनविरोधजापकीर्त्या ॥ २ ॥

घर्मार्तो दिशि दिशि चारपाशचारं

सञ्चर्य क्षणमपि विश्रमं न चापम् ।

कापेयस्तदपि मलीमसे धनाशा-

-भारेण प्रतिगृहमेम्यकिञ्चनोऽपि ॥ ३ ॥

वेदान्ते न किमपि साहसं मयाऽऽत्तं

संसर्तुर्मम धिषणाभवच्छिलाभा ।

श्रीलानां द्विजकक इत्यनादृतो वा

पश्चाद्वा पुरत उतानुगादिकोऽहम् ॥ ४ ॥

दारा मे तिलकटु कल्पयन्ति चित्तं

व्रातीनो धनिकतयापि नापमर्थम् ।

तस्मान्मामनुपधिकं सुपुत्रकं ते

तातेष्टप्रद कुरु राघवेन्द्रतीर्थ ॥ ५ ॥

यं यं वा जनमहमाश्रये सुखाय

प्रारब्धान् मम स स कर्मणो जहाति ।

हृद्रोगः प्रपचति रूपमद्य तत्क-

-स्तं क्षिप्रं प्रशमय मां सुखी कुरु त्वम् ॥ ६ ॥

नर्नृत्तः प्रतिपदमङ्गनाधनाशी

उष्णालुः सततमहं हिमेलुरेषः ।

किं कार्यमिह परसाधनान्युपायी-

कृत्ये त्वं गुरुवर मे गतिं प्रदेहि ॥ ७ ॥

मारोदीरिति चिरदूनमानसं मा-

-माश्वस्य प्रकटय मय्युदारभावम् ।

याचे त्वां यतिवर राघवेन्द्रतीर्था-

-नन्याप्यां पितृबलतां त्वयाहमाप्तुम् ॥ ८ ॥

कृष्णाख्यः कविरवधूत ईशजूटी

संसर्पत् सुरसरिदाभ वाग्विलासः ।

स्तोत्रं श्रीगुरुवर पादयोर्वितन्व-

-न्नापेदे सपदि तदिष्टपुत्रभावम् ॥ ९ ॥

इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले गुरुकरुणासम्पादनस्तोत्रं नाम दशमोऽध्यायः ॥