Stotra
Sri Raghavendra Daridrya Mochana Stotram
About
Sri Raghavendra Daridrya Mochana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रितानां पादं ते सकलविधया शोकहरण
त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १ ॥
रतं वा दुष्कार्ये त्यजति सुतमम्बा किमु पिता
कृपां कृत्वा शिश्नोदरकृत महागस्यपि मयि ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २ ॥
घनाघो वा दीनोऽवयवविकलो वाक्षविकलः
प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३ ॥
वदान्यात् त्वद्भूमौ दिवि सुरभि कल्पद्रुदृषदां
लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४ ॥
द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय
त्वदन्यो दाता चेद्भवति कथमायामि वाद मे ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५ ॥
यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान्
व्रजन् देशं देशं श्रमजनिरभूवं न च धनी ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६ ॥
न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे-
-त्यमुं मां दारिद्र्य व्यसन परिपिण्डीकृत हृदम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७ ॥
महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना
जरत्काकावस्थां भृशमनुभवामीश किमिदम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८ ॥
गुरोः पुत्रः कृष्णसुकविरवधूतः स्तवमहं
चकारैकश्वासात् सरलमिदमादृत्य पठताम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९ ॥
इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले दारिद्र्यमोचनस्तोत्रं नाम नवमोऽध्यायः ॥