Stotra
Sri Raghavendra Abhaya Pradana Stotram
About
Sri Raghavendra Abhaya Pradana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.
Hymn text
श्रितानां स्वपादं मनोऽभीष्टदाने
सुरद्रुप्रमोद प्रहादि प्रभाव ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ १ ॥
रजोहीन तेऽहीनपादाम्बुजातं
प्रपन्नः प्रयाति प्रकृष्टप्रमोदम् ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ २ ॥
घनानन्द ते पादपद्मं प्रविन्द-
-न्ननन्दोऽप्यमन्दं सदानन्दमेति ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ३ ॥
वदान्यो वदान्यो वदान्यास्ति कस्त्वां
ततोऽहं यतेहन्त ते पादमाप्तः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ४ ॥
दयालो दयालो दयालो दयालो
दयां कुर्वमोघां पदं ते प्रपद्ये ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ५ ॥
यथाशक्ति पादस्तुतिं तेऽप्पणार्य
प्रगीतां पठन्तः प्रमोदं भजन्ति ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ६ ॥
न जानामि ते पादसेवाविधानं
यथाशक्ति किन्तु स्वयं स्तौमि नौमि ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ७ ॥
महापद्विनाशाय ते पादरेणुः
प्रभुः स्यादतस्त्वां विपन्नोऽहमाप्तः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ८ ॥
भुजङ्गे भुजङ्गेन कृष्णावधूते-
-न गीतं सुगीतेन लोके पठेद्यः ।
अव त्वं सदा श्रीगुरो राघवेन्द्र
प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ९ ॥
इति श्रीकृष्णावधूत पण्डित कृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले अभयप्रदानं नाम प्रथमोऽध्यायः ॥