Devotional reading

Sri Dwinetra Shambu (Adishankaracharya) Stuti

Sri Dwinetra Shambu (Adishankaracharya) Stuti

About

This original guide introduces Sri Dwinetra Shambu (Adishankaracharya) Stuti and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.

Hymn text

अवतारेऽस्मिन्काम-

-प्रसक्त्यभावाद्विनेत्रत्वम् ।

अलमिति तार्तीयं किं

नेत्रं शम्भुस्तिरोधत्ते ॥ १ ॥

समताबोधाय नृणां

पदपाथोजप्रणम्राणाम् ।

गिरिशेनाद्य कृपात-

-स्त्यक्ता वा विषमलोचनता ॥ २ ॥

अथवा किं बोधयितुं

विकारहीनं पदं कृपाम्भोधे ।

वैरूप्यं मा भूदिति

समलोचनतां दधासि मे ब्रूहि ॥ ३ ॥

द्वे विद्ये श्रुतिमध्ये

वेद्ये प्रोक्ते जनानां हि ।

इममर्थं बोधयितुं

नेत्रद्वन्द्वं गुरो धत्से ॥ ४ ॥

बाह्यं तथान्तरं च

द्वन्द्वं तमसो निवारयितुम् ।

अलमिति नेत्रद्वन्द्वं

धत्से किं यतिवर ब्रूहि ॥ ५ ॥

नेतारौ जगतां किल

विख्यातौ हरिहरौ लोके ।

नेत्रद्वन्द्वं गुरो युक्तम् ॥ ६ ॥

स्वाहानाथो निवृत्तो यत् ।

शिष्टं यतिरूपशङ्करे नूनम् ॥ ७ ॥

अज्ञानतिमिरसंवृत-

-जनततये बोधनेत्रदानेन ।

अवशिष्टा किमु चास्मि-

-न्नवतारे द्विनेत्रता शम्भो ॥ ८ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचिता श्री द्विनेत्रशम्भु स्तुतिः ॥

"देवनागरि" ,