Devotional reading

Mooka Panchasati

Mooka Panchasati

About

This original guide introduces Mooka Panchasati and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.

Hymn text

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां

वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।

स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां

वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १ ॥

तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे

संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।

कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे

विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परञ्ज्योतिषे ॥ २ ॥

ये सन्ध्यारुणयन्ति शङ्करजटाकान्तारचन्द्रार्भकं

सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।

पुण्यं ये परिपक्वयन्ति भजतां काञ्चीपुरे माममी

पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥

कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा

कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती ।

कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां

कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥

कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा

श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा ।

वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता

कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥ ५ ॥

श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने

सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।

मारारातिमनोविमोहनविधौ काचित्तमःकन्दली

कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥ [कल्पतात्]

प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शयन्

ज्योत्स्नासङ्गमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।

कालिन्दीलहरीदशां प्रकटयन् कम्रां नभस्यद्भुतां

कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७ ॥

तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहै-

-स्तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः ।

मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः

कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शाङ्करैः ॥ ८ ॥

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती

तेजःसञ्चयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।

काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते

काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥ ९ ॥

कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं

कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।

कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली

काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥

राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता

मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् ।

श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सता-

-मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां

लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी ।

आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती

कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥

ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके

रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।

औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्

कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृश-

-न्नुत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।

माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्वेपयन् [ह्रेपयन्]

काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः ॥ १४ ॥

खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं

कालायश्छवितस्करीं तनुरुचिं कर्णेजपे लोचने ।

तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं

भाग्यं देशिकसञ्चितं मम कदा सम्पादयेदम्बिके ॥ १५ ॥

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां

केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।

अंहोवञ्चनचुञ्चु किञ्चन भजे काञ्चीपुरीमण्डनं

पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥

आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं

चूडालङ्क्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।

मुग्धस्मेरमुखी घनस्तनतटीमूर्छालमध्याञ्चिता

काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७ ॥

यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-

-ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।

द्राक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी

कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणात् ॥ १८ ॥

कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि

प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये ।

मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः

कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९ ॥

कलकलरणत्काञ्ची काञ्चीविभूषणमालिका

कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।

कविकुलगिरः श्रावंश्रावं मिलत्पुलकाङ्कुरा

विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २० ॥

सरसवचसां वीची नीचीभवन्मधुमाधुरी

भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।

जननि मनसो योग्यं भोग्यं नृणां तव जायते

कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥

भ्रमरितसरित्कूलो नीलोत्पलप्रभया भया-

-नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।

अचलतपसामेकः पाकः प्रसूनशरासन-

-प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥

मधुरवचसो मन्दस्मेरा मतङ्गजगामिन-

-स्तरुणिमजुषस्तापिञ्छाभास्तमःपरिपन्थिनः ।

कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः

कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३ ॥

कमलसुषमाकक्ष्यारोहे विचक्षणवीक्षणाः

कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।

रुचिररुचिभिस्तापिञ्छश्रीप्रपञ्चनचुञ्चवः

पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥

कलितरतयः काञ्चीलीलाविधौ कविमण्डली-

-वचनलहरीवासन्तीनां वसन्तविभूतयः ।

कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः

कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥

कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः

सरसिजवनीसन्तानानामरुन्तुदशेखराः ।

नयनसरणेर्नेदीयांसः कदा नु भवन्ति मे

तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः ॥ २६ ॥

अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया

सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।

त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती

तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥

जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं

कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः ।

तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने

नमति मयि ते किञ्चित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-

-विहरणकलागेहं काञ्चीपुरीमणिभूषणम् ।

जगति महतो मोहव्याधेर्नृणां परमौषधं

पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९ ॥

मुनिजनमनोधाम्ने धाम्ने वचोमयजाह्नवी-

-हिमगिरितटप्राग्भारायाक्षराय परात्मने ।

विहरणजुषे काञ्चीदेशे महेश्वरलोचन-

-त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥ ३० ॥

मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषा-

-ममृतलहरीपूरं पारं भवाख्यपयोनिधेः ।

सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं

हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥

प्रणमनदिनारम्भे कम्पानदीसखि तावके

सरसकवितोन्मेषः पूषा सतां समुदञ्चितः ।

प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं

नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥

शमितजडिमारम्भा कम्पातटीनिकटेचरी

निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला ।

फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता

सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया

कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।

जगति शमितस्तम्भां कम्पानदीनिलयामसौ

श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम् ॥ ३४ ॥

परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने

शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम् ।

अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ

कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥

पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया

सरसकविताभाजा काञ्चीपुरोदरसीमया ।

तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः

किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं

विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।

मरकतरुचो देहे माहेश्वराः स्तननम्रिताः

सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः ॥ ३७ ॥

मनसिजयशःपारस्पर्यं मरन्दझरीसुवां

कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् । [कलिकुल]

मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं

पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥

शिथिलिततमोलीलां नीलारविन्दविलोचनां

दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।

करधृतलसच्छूलां कामारिचित्तहरां परां

मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥ ३९ ॥

कलालीलाशाला कविकुलवचःकैरववनी-

-शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।

पुनीते नः कम्पापुलिनतटसौहार्दतरला

कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥ ४० ॥

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा

दधानेभ्यश्चूडाभरणममृतस्यन्दिशिशिरम् ।

सदा वास्तव्येभ्यः सुविधभुवि कम्पाख्यसरितो

यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः ॥ ४१ ॥

असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-

-कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः ।

तमोमुद्रां विद्रावयतु मम काञ्चीनिलयना

हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥

अनाद्यन्ता काचित्सुजननयनानन्दजननी

निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।

स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो

गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ ४३ ॥

सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं

परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।

स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं

दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४ ॥

कृपाधारा द्रोणी कृपणधिषणानां प्रणमतां

निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका ।

परा काञ्चीलीलापरिचयवती पर्वतसुता

गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥ ४५ ॥

कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे-

-र्विधात्री विश्वेषां विषमशरवीरध्वजपटी ।

सखी कम्पानद्याः पदहसितपाथोजयुगली

पुराणी पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६ ॥

दरिद्राणां मध्ये दरदलिततापिञ्छसुषमाः

स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः ।

हराधीना नानाविबुधमुकुटीचुम्बितपदाः

कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो

नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।

चरीचर्तु प्रज्ञाजननि जडिमा नः परजने

सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८ ॥

क्षणां ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः [क्षणात्ते]

कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।

नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-

-सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥

पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां

प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः ।

इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-

परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥

उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया

समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।

उपादत्ते मारप्रतिभटजटाजूटमुकुटी-

-कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥

श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां

सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।

त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि

प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥

मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां

सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।

गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपते-

-र्दृशां भोग्यं योग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥

घनश्यामान् कामान्तकमहिषि कामाक्षि मधुरान्

दृशां पातानेतानमृतजलशीताननुपमान् ।

भवोत्पाते भीते मयि वितर नाथे दृढभवन्

मनःशोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥

नतानां मन्दानां भवनिगलबन्धाकुलधियां

महान्ध्यं रुन्धानामभिलषितसन्तानलतिकाम् ।

चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां

स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥

परा विद्या हृद्याश्रितमदनविद्या मरकत-

-प्रभानीला लीलापरवशितशूलायुधमनाः ।

तमःपूरं दूरं चरणनतपौरन्दरपुरी-

-मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६ ॥

अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी

हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ ।

कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै-

-रिमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७ ॥

बुधे वा मूके वा तव पतति यस्मिन्‍क्षणमसौ

कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।

कथङ्कारं नास्मै करमुकुलचूडालमुकुटा

नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥

प्रतीचीं पश्यामः प्रकटरुचिनीवारकणिश-

-प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।

चरन्तीं सौषुम्णे पथि परपदेन्दुप्रविगल-

-त्सुधार्द्रां कामाक्षीं परिणतपरज्योतिरुदयाम् ॥ ५९ ॥

जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती

गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती ।

शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती

कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां

कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।

मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं

कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥

कालाम्भोदप्रकरसुषमां कान्तिभिस्तर्जयन्ती

कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।

कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री

काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां

पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् ।

कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं

कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥

काञ्चीलीलापरिचयवती कापि तापिञ्छलक्ष्मी-

-र्जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।

माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां

मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४ ॥

सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ

लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।

काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली

मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां

व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।

काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासु-

-र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥

कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती

मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।

हंसारावं विकचकमले मञ्जुमुल्लासयन्ती

कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं

पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।

जातः शैलान्न तु जलनिधेः स्वैरसञ्चारशीली

काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८ ॥

ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं

तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।

व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्या-

-मैशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥

आहारांशं त्रिदशसदसामाश्रये चातकाना-

-माकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।

कम्पातीरे विहरतितरां कामधेनुः कवीनां

मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः ॥ ७० ॥

आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासै-

-रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।

कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः

काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥

आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्ती-

-मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।

आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चै-

-राराध्यायै स्पृहयतितरामादिमायै जनन्यै ॥ ७२ ॥

दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं

मोहक्ष्वेलक्षितिरुहवने तीक्ष्णधारं कुठारम् ।

कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं

शान्त्यै सेवे सकलविपदां शाङ्करं तत्कलत्रम् ॥ ७३ ॥

खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-

-शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती ।

तुण्डीराख्ये महति विषये स्वर्णवृष्टिप्रदात्री

चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे ॥ ७४ ॥

येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा

यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।

यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः

कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५ ॥

धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं

निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।

साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीति-

-र्वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६ ॥

यस्या वाटी हृदयकमलं कौसुमी योगभाजां

यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः ।

यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची

सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७ ॥

एका माता सकलजगतामीयुषी ध्यानमुद्रा-

-मेकाम्राधीश्वरचरणयोरेकतानां समिन्धे ।

ताटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा

तारुण्यश्रीस्तबकितरुचा तापसी कापि बाला ॥ ७८ ॥

दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः

मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः ।

अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-

-मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥ ७९ ॥

त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां

पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।

मतङ्गकुलनायिकां महिषमर्दनीं मातृकां

भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥ ८० ॥

महामुनिमनोनटी महितरम्यकम्पातटी-

-कुटीरकविहारिणी कुटिलबोधसंहारिणी ।

सदा भवतु कामिनी सकलदेहिनां स्वामिनी

कृपातिशयकिङ्करी मम विभूतये शाङ्करी ॥ ८१ ॥

जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा

नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।

वचःसु मधुमाधुरीं प्रकटयन्ति पौरन्दरी-

-विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम् ॥ ८२ ॥

घनस्तनतटस्फुटस्फुरितकञ्चुलीचञ्चली-

-कृतत्रिपुरशासना सुजनशीलितोपासना ।

दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे

परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ॥

कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी

निरूढकरुणाझरी निखिललोकरक्षाकरी ।

मनःपथदवीयसी मदनशासनप्रेयसी

महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥

धनेन न रमामहे खलजनान्न सेवामहे

न चापलमयामहे भवभयान्न दूयामहे ।

स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत-

-स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥ ८५ ॥

सुराः परिजना वपुर्मनसिजाय वैरायते

त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ।

गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा

कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः

पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः ।

भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै-

-र्निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥ ८७ ॥

कदा कलितखेलनाः करुणयैव काञ्चीपुरे

कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः ।

पयोधरभरालसाः कविजनेषु ते बन्धुराः

पचेलिमकृपारसाः परिपतन्ति मार्गे दृशोः ॥ ८८ ॥

अशोध्यमचलोद्भवं हृदयनन्दनं देहिना-

-मनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते ।

अनेन समलङ्कृता जयति शङ्कराङ्कस्थली

कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥

परामृतझरीप्लुता जयति नित्यमन्तश्चरी

नृणामपि बहिश्चरी परमसंविदेकात्मिका ।

महद्भिरपरोक्षिता सततमेव काञ्चीपुरे

ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥

त्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका

त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।

त्वमेव किल शाम्भवी त्वमपि कामकोटी जया

त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९१ ॥

परे जननि पार्वति प्रणतपालिनि प्रातिभ-

-प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।

त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे

त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९२ ॥

मनोमधुकरोत्सवं विदधती मनीषाजुषां

स्वयम्प्रभववैखरीविपिनवेदिकालम्बिनी ।

अहो शिशिरिता कृपामधुरसेन कम्पातटे

चराचरविधायिनी चलति कापि चिन्मञ्जरी ॥ ९३ ॥

कलावति कलाभृतो मुकुटसीम्नि लीलावति

स्पृहावति महेश्वरे भुवनमोहने भास्वति ।

प्रभावति रमे सदा महितरूपशोभावति

त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९४ ॥

त्वयैव जगदम्बया भुवनमण्डली सूयते

त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।

त्वयैव खरकोपया नयनपावके हूयते

त्वयैव किल नित्यया जगति सन्ततं स्थीयते ॥ ९५ ॥

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं

गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।

परापरमयीं सदा दशदिशां निशाहर्मयीं

परां सततसन्मयीं परमचिन्मयीं शीलये ॥ ९६ ॥

जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा

जितशरदम्बुजे घनविडम्बिनि केशरुचा ।

परमवलम्बनं कुरु सदा पररूपधरे

मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९७ ॥

भुवनजननि भूषाभूतचन्द्रे नमस्ते

कलुषशमनि कम्पातीरगेहे नमस्ते ।

निखिलनिगमवेद्ये नित्यरूपे नमस्ते

परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९८ ॥

तमोविपिनधाविनं सततमेव काञ्चीपुरे

विहाररसिका परा परमसंविदुर्वीरुहे ।

कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं

चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९९ ॥

क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी-

-शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः ।

घनश्यामा श्यामा कठिनकुचसीमा मनसि मे

मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम् ॥ १०० ॥

समरविजयकोटी साधकानन्दधाटी

मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।

मुनिनुतपरिपाटी मोहिताजाण्डकोटी

परमशिववधूटी पातु मां कामकोटी ॥ १०१ ॥

[* अधिकश्लोकं –

इमं परवरप्रदं प्रकृतिपेशलं पावनं

परापरचिदाकृतिप्रकटनप्रदीपायिताम् ।

स्तुतिं पठति नित्यदा मनसि भावयन्नम्बिकां

जपैरलमलं मखैरधिकदेहसंशोषणैः ॥

इति स्तुतिशतकम् ॥

मूकपञ्चशति – कटाक्षशतकम्(४) >>