Stotra

Sri Vishnu Pratah Smarana Stotram

Sri Vishnu Pratah Smarana Stotram

About

Sri Vishnu Pratah Smarana Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.

Hymn text

प्रातः स्मरामि फणिराजतनौ शयानं

नागामरासुरनरादिजगन्निदानम् ।

वेदैः सहागमगणैरुपगीयमानं

कान्तारकेतनवतां परमं निधानम् ॥ १ ॥

प्रातर्भजामि भवसागरवारिपारं

देवर्षिसिद्धनिवहैर्विहितोपहारम् ।

सन्दृप्तदानवकदम्बमदापहारं

सौन्दर्यराशि जलराशिसुताविहारम् ॥ २ ॥

प्रातर्नमामि शरदम्बरकान्तिकान्तं

पादारविन्दमकरन्दजुषां भवान्तम् ।

नानाऽवतारहृतभूमिभरं कृतान्तं

पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।

यः पठेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥

इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं श्री विष्णु प्रातः स्मरण स्तोत्रम् ।

"देवनागरि" ,