Stotra

Akrura kruta Dasavatara Stotram

Akrura kruta Dasavatara Stotram

About

Akrura kruta Dasavatara Stotram is introduced as a stotra, a devotional hymn of praise. This original guide offers a place to explore its subject and approach the tradition with care.

Hymn text

नमः कारणमत्स्याय प्रलयाब्धिचराय च ।

हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १ ॥

अकूपाराय बृहते नमो मन्दरधारिणे ।

क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ २ ॥

नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।

वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ ३ ॥

नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे ।

नमस्ते रघुवर्याय रावाणान्तकराय च ॥ ४ ॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ५ ॥

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।

म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ ६ ॥

इति श्रीमद्भगवते महापुराणे दशमस्कन्धे चत्वारिंशोऽध्याये श्री अक्रूरकृत दशावतार स्तोत्रम् ॥

"देवनागरि" ,