Devotional reading
Agni Stuti (Mahabharate)
About
This original guide introduces Agni Stuti (Mahabharate) and the astrological language named in its title. It is an educational overview, not a personal reading or prediction.
Hymn text
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् ।
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥ १ ॥
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ।
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥ २ ॥
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ।
त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥ ३ ॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ ४ ॥
त्वामग्ने जलदानाहुः खे विषक्तान् सविद्युतः ।
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥ ५ ॥
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते ।
तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥ ६ ॥
त्वयाऽऽपो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ।
त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥ ७ ॥
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः ।
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥ ८ ॥
इति महाभारते आदिपर्वणि विंशत्यधिकशततमोऽध्याये मन्दपाल कृत अग्नि स्तुतिः ॥
"देवनागरि" ,