Ashtakam

Sri Ranganatha Ashtakam 1

Sri Ranganatha Ashtakam 1

About

Sri Ranganatha Ashtakam 1 is introduced as an ashtakam, a devotional hymn form associated with a focused sequence of verses. The guide offers context without prescribing a single way to recite or interpret it.

Hymn text

आनन्दरूपे निजबोधरूपे

ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे ।

शशाङ्करूपे रमणीयरूपे

श्रीरङ्गरूपे रमतां मनो मे ॥ १ ॥

कावेरितीरे करुणाविलोले

मन्दारमूले धृतचारुकेले ।

श्रीरङ्गलीले रमतां मनो मे ॥ २ ॥

लक्ष्मीनिवासे जगतां निवासे

हृत्पद्मवासे रविबिम्बवासे ।

कृपानिवासे गुणबृन्दवासे

श्रीरङ्गवासे रमतां मनो मे ॥ ३ ॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये

मुकुन्दवन्द्ये सुरनाथवन्द्ये ।

व्यासादिवन्द्ये सनकादिवन्द्ये

श्रीरङ्गवन्द्ये रमतां मनो मे ॥ ४ ॥

ब्रह्मादिराजे गरुडादिराजे

वैकुण्ठराजे सुरराजराजे ।

श्रीरङ्गराजे रमतां मनो मे ॥ ५ ॥

अमोघमुद्रे परिपूर्णनिद्रे

श्रीयोगनिद्रे ससमुद्रनिद्रे ।

श्रितैकभद्रे जगदेकनिद्रे

श्रीरङ्गभद्रे रमतां मनो मे ॥ ६ ॥

सचित्रशायी भुजगेन्द्रशायी

नन्दाङ्कशायी कमलाङ्कशायी ।

क्षीराब्धिशायी वटपत्रशायी

श्रीरङ्गशायी रमतां मनो मे ॥ ७ ॥

इदं हि रङ्गं त्यजतामिहाङ्गं

पुनर्नशाङ्गं यदि शाङ्गमेति ।

पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं

याने विहङ्गं शयने भुजङ्गम् ॥ ८ ॥

रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय यः पठेत् ।

सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥ ९ ॥

इति श्रीमच्छङ्कराचार्य कृत श्री रङ्गनाथाष्टकम् ।